________________
१०७
योगविवेकद्वात्रिंशिका योगानियतत्वादिति नयभेदेन भावनीयम् ॥२६॥
सत्क्षयोपशमोत्कर्षादतिचारादिचिन्तया । रहिता यमसेवा तु तृतीयो यम उच्यते ॥२७॥
सदिति । सतो विशिष्टस्य क्षयोपशमस्य उत्कर्षाद् उद्रेकाद् अतिचारादीनां चिन्तया रहिता तदभावस्यैव विनिश्चयात् । यमसेवा तु तृतीयो यमः स्थिरयम उच्यते ॥२७॥
१०८
योगदृष्टिसंग्रह क्रियावञ्चकयोगः स्यात् । महापापक्षयस्य नीचैर्गोत्रकर्मक्षयस्य उदय उत्पत्तिर्यस्मात् स तथा ॥३०॥
फलावञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलावाप्तिधर्मसिद्धौ सतां मता ॥३१॥
फलेति । फलावञ्चकयोगस्तु सभ्य एव अनन्तरोदितेभ्यो नियोगतः अवश्यंभावेन सानुबन्धस्य उत्तरोत्तरवृत्तिमतः फलस्य अवाप्तिः तथा सदुपदेशादिना धर्मसिद्धौ विषये सतां मता ॥३१॥
इत्थं योगविवेकस्य विज्ञानाद्धीनकल्मषः । यतमानो यथाशक्ति परमानन्दमश्नुते ॥३२॥
परार्थसाधिका त्वेषा सिद्धिः शुद्धान्तरात्मनः ।
अचिन्त्यशक्तियोगेन चतुर्थो यम उच्यते ॥२८॥ परार्थेति । परार्थसाधिका स्वसन्निधौ परस्य वैरत्यागादिकारिणी तु एषा यमसेवा सिद्धिः । शुद्धः क्षीणमलतया निर्मलः अन्तरात्मा यस्य । अचिन्त्याया अनिर्वचनीयायाः शक्ते: स्ववीर्योल्लासरूपाया योगेन चतुर्थो यम उच्यते ॥२८॥
इत्थमिति । स्पष्टः ॥३२॥
सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते ॥२९॥
सद्भिरिति सद्भिः उत्तमैः । कल्याणसम्पन्नैः विशिष्टपुण्यवद्भिः । दर्शनादपि अवलोकनादपि पावनैः पवित्रैः । तथा तेन प्रकारेण गुणवत्तयेत्यर्थः । दर्शनतो योगः सम्बन्धः आद्यावञ्चक: सद्योगावञ्चक इष्यते ॥२९॥
तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोगः स्यान्महापापक्षयोदयः ॥३०॥ तेषामेवेति । तेषामेव सतामेव प्रणामादिक्रियानियम इत्यलं