________________
योगदृष्टिसंग्रह आद्यावञ्चकयोगाप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥२४॥
योगविवेकद्वात्रिंशिका
कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथासिद्धयादिभावतः ॥
तेषां कुलप्रवृत्तचक्रयोगिनां लक्षणं पुनरिदं वक्ष्यमाणं योगाचार्यै: योगप्रतिपादकैः सूरिभिर्विनिर्दिष्टम् ॥२०॥
ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥२१॥
आद्येति । आद्यावञ्चकयोगस्य योगावञ्चकयोगस्य आप्त्या प्राप्त्या हेतुभूतया । तदन्यद्वयलाभिन: क्रियावञ्चकफलावञ्चकयोगलाभवन्तस्तदवन्ध्यभव्यतया तत्त्वतस्तेषां तल्लाभवत्त्वात् । एतेऽधिकारिणो योगप्रयोगस्य= अधिकृतयोगव्यापारस्य इति एवं तद्विदो योगविदोऽभिदधति ॥२४॥
यमाश्चतुर्विधा इच्छाप्रवृत्तिस्थैर्यसिद्धयः । योगक्रियाफलाख्यं च स्मर्यतेऽवञ्चकत्रयम् ॥२५॥
य इति । ये योगिनां कुले जाता: लब्धजन्मानः तद्धर्मानुगताश्च= योगिधर्मानुसरणवन्तश्च ये=प्रकृत्याऽन्येऽपि, कुलयोगिन उच्यन्ते द्रव्यतो भावतश्च, गोत्रवन्तोऽपि सामान्येन कर्मभूमिभव्या अपि नापरे कुलयोगिन इति ॥२१॥
यमा इति । यमाश्चतुर्विधा इच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमाश्च । अवञ्चकत्रयं च योगक्रियाफलाख्यं स्मर्यते योगावञ्चक: कियावञ्चकः फलावञ्चकश्चेति ॥२५॥
सर्वत्राद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो जितेन्द्रियाः ॥२२॥
इच्छायमो यमेष्विच्छायुता तद्वत्कथा मुदा । स प्रवृत्तियमो यत्तत्वालनं शमसंयुतम् ॥२६॥
सर्वत्रेति । एते च तथाविधाग्रहाभावेन सर्वत्राद्वेषिणः । तथा धर्मप्रभावाद्यथास्वाचारं गुर्वादिप्रियाः । तथा प्रकृत्या क्लिष्टपापाभावेन दयालवः । विनीताश्च कुशलानुबन्धिभव्यतया । बोधवन्तो ग्रन्थिभेदेन । जितेन्द्रियाः चारित्रभावेन ॥२२॥
प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः ।
शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः ॥२३॥
प्रवृत्तचक्रास्त्विति । प्रवृत्तचक्रास्तु=पुनः यमद्वयस्य इच्छायमप्रवृत्तियमलक्षणस्य समाश्रया आधारीभूताः । शेषद्वयार्थिनः स्थिरयमसिद्धियमद्वयार्थिनः । अत्यन्तं सदुपायप्रवृत्त्या । शुश्रूषादयो गुणाः शुश्रूषाश्रवणग्रहणधारणविज्ञानोहापोहलक्षणास्तैः अन्विता=युक्ताः ॥२३॥
इच्छेति । तद्वतां यमवतां कथातो या मुत्=प्रीतिस्तया युता सहिता यमेष्विच्छा इच्छायम उच्यते । यत्तेषां यमानां पालनं शमसंयुतमुपशमान्वितं स प्रवृत्तियमः । तत्पालनं चात्राविकलमभिप्रेतं, तेन न कालादिविकलतत्पालनक्षणे इच्छायमेऽतिव्याप्तिः । न च सोऽपि प्रवृत्तियम एव, केवलं तथाविधसाधुचेष्टया प्रधान इच्छायम एव, तात्त्विकपक्षपातस्यापि द्रव्यक्रियातिशायित्वात् । तदुक्तं
तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया ।
अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥ (यो. इ. स. २२३) संविग्नपाक्षिकस्य प्रवृत्तचक्रत्वानुरोधे तु प्रवृत्तियम एवायं तस्य शास्त्र