________________
योगविवेकद्वात्रिंशिका
१०३ शुद्ध्यपेक्षो यथायोगं चारित्रवत एव च ।। हन्त ! ध्यानादिको योगस्तात्त्विकः प्रविजृम्भते ॥१६॥
शुद्ध्यपेक्ष इति । यथायोगं यथास्थानं शुद्ध्यपेक्षः उत्तरोत्तरां शुद्धिमपेक्ष्य प्रवर्तमानः चारित्रवत एव च हन्त तात्त्विकः पारमार्थिकैकस्वरूपो ध्यानादिको योगः प्रविजृम्भते प्रोल्लसति ॥१६॥
योगदृष्टिसंग्रह एवं चरमदेहस्य सम्परायवियोगतः । इत्वराश्रवभावेऽपि स तथाऽनाश्रवो मतः ।। निश्चयेनात्र शब्दार्थः सर्वत्र व्यवहारतः । निश्चयव्यवहारौ यद् द्वावप्यभिमतार्थदौ ॥
(योगबिन्दुः २७६.७७.७८) निश्चयेनेत्युपलक्षणे तृतीया । ततो निश्चयेनोपलक्षितात्तत्प्रापकव्यवहारत इत्यन्वयः ॥१८॥
इत्थं साश्रवाऽनाश्रवत्वाभ्यां योगद्वैविध्यमुक्त्वा शास्त्रसापेक्षस्वाधिकारिकत्वतद्विपर्ययाभ्यां तद्वैविध्याभिधानाभिप्रायवानाह
शास्त्रेणाधीयते चायं नासिद्धेर्गोत्रयोगिनाम् । सिद्धेर्निष्पन्नयोगस्य नोद्देशः पश्यकस्य यत् ॥१९॥
अपायाऽभावभावाभ्यां सानुबन्धोऽपरश्च सः । निरुपक्रमकर्मैवाऽपायो योगस्य बाधकम् ॥१७॥
अपायेति । अपायस्याभावभावाभ्यां सद्भावासद्भावाभ्यां सानुबन्धोऽपरो निरनुबन्धश्च सयोगः । अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति । योगस्य बाधकं निरुपक्रम विशिष्टानुष्ठानचेष्टयाऽप्यनुच्छिद्यमनाश्यस्वविपाकसामर्थ्य वा कर्मैव चारित्रमोहनीयाख्यम् अपायः ॥१७॥
बहुजन्मान्तरकरः सापायस्यैव साश्रवः ।
अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः ॥१८॥
बह्विति । बहुजन्मान्तरकरो=देवमनुष्याद्यनेकजन्मविशेषहेतुर्निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् । सापायस्यैव अपायवत एव साश्रवो योगः । एकमेव वर्तमानं जन्म यत्र स तु अनाश्रवः । ननु कथमेतद् ? योगिकेवलिगुणस्थानादर्वाक् सर्वसंवराऽभावेनाऽनाश्रवत्वाऽसम्भवादित्यत आह तत्त्वाङ्गं निश्चयप्रापको यो व्यवहार:ततः । तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नाऽनाश्रवयोगक्षतिरिति भावः । तदुक्तं
आश्रवो बन्धहेतुत्वाद् बन्ध एवेह यन्मतः । स साम्परायिको मुख्यस्तदेषोऽर्थोऽस्य सङ्गतः ॥
शास्त्रेणेति । अयं च योगो गोत्रयोगिना=गोत्रमात्रेण योगिनाम् असिद्धेः मलिनान्तरात्मतया योगसाध्यफलाभावात् शास्त्रेण योगतन्त्रेण न अधीयते । तथा सिद्धः सामर्थ्ययोगत एव कार्यनिष्पत्तेः निष्पन्नयोगस्य= असङ्गानुष्ठानप्रवाहप्रदर्शनेन सिद्धयोगस्यायं शास्त्रेण नाधीयते । यद् यस्मात् पश्यकस्य स्वत एव विदितवेद्यस्य उद्दिश्यत इति उद्देशः । सदसत्कर्तव्याकर्त्तव्यादेशो नास्ति । यतोऽभिहितमाचारे-'उद्देसो पासगस्स नत्थि त्ति' ॥१९॥ (आचाराङ्गे अध्य. २, श्रु. ३. सू. ८१)
कुलप्रवृत्तचक्राणां शास्त्रात्तत्तदुपक्रिया । योगाचार्यैर्विनिर्दिष्टं तल्लक्षणमिदं पुनः ॥२०॥
कुलेति । कुलयोगिनां प्रवृत्तचक्रयोगिनां च शास्त्रा=योगतन्त्रात् सा विचित्रत्वेन प्रसिद्धा उपक्रिया योगसिद्धिरूपा भवति । तदुक्तं योगदृष्टिसमुच्चये (श्लोक-२०९)