Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
११४
योगावतारद्वात्रिंशिका
'सूक्ष्मविषयत्वं चालिङ्गपर्यवसानं' (पातं. १-४५) न क्वचिद्विद्यते, न वा कञ्चिल्लिङ्गति गमयतीत्यलिङ्गं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणाम चत्वारि पर्वाणि विशिष्टलिङ्गं अविशिष्टलिङ्ग लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्ग भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, लिङ्गमात्र=बुद्धिः, अलिङ्गं च प्रधानमिति । एताश्च समापत्तयः सम्प्रज्ञातरूपा एव । यदाह-"ता एव सबीजः समाधिरिति" (पातं. १-४६) सह बीजेनालम्बनेन वर्तत इति सबीजः सम्प्रज्ञात इत्यर्थः ॥११॥
इतरासां समापत्तीनां निर्विचारफलत्वान्निविचारायाः फलमाह
योगदृष्टिसंग्रह तदुक्तं -"तज्जः संस्कारोऽन्यसंस्कारप्रतिबन्धी" (पातं. १-५०) । तस्य निरोधतः सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् । संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञातनामा समाधिः स्यात् । तदुक्तं- "तस्यापि निरोधे सर्ववृत्तिनिरोधान्निर्बीजः समाधिरिति (पातं. १-५१) ॥१३॥
विरामप्रत्ययाभ्यासान्नेति नेति निरन्तरात् । ततः संस्कारशेषाच्च कैवल्यमुपतिष्ठते ॥१४॥
अध्यात्मं निर्विचारत्ववैशारद्ये प्रसीदति । ऋतम्भरा ततः प्रज्ञा श्रुतानुमितितोऽधिका ॥१२॥
अध्यात्ममिति । निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारो= प्रकृष्टाभ्यासवशेन नैर्मल्ये अध्यात्म शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति यदुक्तं- "निर्विचारत्ववैशारोऽध्यात्मप्रसादः" (पातं. १-४७) ततःअध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति । ऋतं= सत्यमेव बिभर्ति, न कदाचिदपि विपर्ययेणाच्छाद्यते या सा ऋतम्भरा । तदुक्तं"ऋतम्भरा तत्र प्रज्ञा" (पातं. १-४८) । सा च श्रुतानुमितित आगमानुमानाभ्यां सामान्यविषयाभ्यां विशेषविषयत्वेन अधिका । यदाह- "श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषार्थत्वादिति" (पातं. १-४९) ॥१२॥
विरामेति । विरामो-वितर्कादिचिन्तात्यागः स एव प्रत्ययो विरामप्रत्ययस्तस्य अभ्यासः पौन:पुन्येन चेतसि निवेशनं ततः । नेति नेति निरन्तराद् अन्तरहितात्संस्कारशेषादुत्पन्ना तत: असम्प्रज्ञातसमाधेः । यत उक्तं"विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्य इति" (पातं. १-१८) । कैवल्यम् =आत्मनः स्वप्रतिष्ठत्वलक्षणम् उपतिष्ठते आविर्भवति ॥१४॥
तदेवमुक्तौ पराभिमतौ सभेदौ सोत्पत्तिक्रमौ च सम्प्रज्ञातासम्प्रज्ञाताख्यौ योगभेदौ, अथानयोर्यथासम्भवमवतारमाह
सम्प्रज्ञातोऽवतरति ध्यानभेदेऽत्र तत्त्वतः । तात्त्विकी च समापत्ति त्मनो भाव्यतां विना ॥१५॥
सम्प्रज्ञात इति । अत्र सम्प्रज्ञातासम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारम्भ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः । यदाह योगबिन्दुकृत्
समाधिरेष एवान्यैः सम्प्रज्ञातोऽभिधीयते ।
सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानतस्तथा ॥ इति । (यो. बि. ४१९) एष एवाध्यात्मादियोगः तात्त्विकी निरुपचरिता च समापत्तिरात्मनो भाव्यतां भावनाविषयतां विना न घटते शुद्धस्याभाव्यत्वे विशिष्टस्यापि
तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ॥१३॥
तज्जन्मेति । तत-ऋतम्भराप्रज्ञाया जन्म उत्पत्तिर्यस्य स तथा । तत्त्व संस्कार:=परमार्थविषयः संस्कार: संस्कारान्तरस्य स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधक: तन्निष्ठकार्यकरणशक्तिभङ्गकृदिति यावत् ।

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131