Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 41
________________ योगदृष्टिसमुच्चयः टनादिलक्षणा अन्या=भवति । कुत इत्याह = फलभेदतः प्राक् साम्परायिककर्मक्षयः फलम्, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥१८०॥ तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथाऽयं धर्मसन्यासविनियोगान्महामुनिः ॥ १८९ ॥ तन्नियोगाद्=रत्ननियोगात्, महात्मेह-लोके, कृतकृत्यो यथा भवेत् कश्चिद्रत्नवणिक् । तथाऽयम् = अधिकृतयोगो, धर्मसन्यासविनियोगात् सकाशात्, महामुनिः कृतकृत्यो भवतीति ॥ १८९ ॥ तथा (तत्र) - द्वितीयाऽपूर्वकरणे मुख्योऽयममुपजायते । केवल श्रीस्ततश्चास्य निःसपत्ना सदोदया ॥ १८२ ॥ ६९ द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि मुख्योऽयं धर्मसन्यासः, उपजायत उपचरितस्तु प्रमत्तसंयतादारभ्य केवल श्रीस्ततश्च= धर्मसन्यासविनियोगात्, अस्य = योगिनो, निःसपत्ना केवल श्रीः सदोदया प्रतिपाताऽभावेन ॥ १८२ ॥ सिंहावलोकितनीत्याऽधिकृतवस्तुनिर्धारणायाह स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥१८३॥ स्थितो न स्थापनीयः, शीतांशुवत् = चन्द्रवत्, जीव = आत्मा, प्रकृत्याऽऽत्मीयया, भावशुद्धया=तत्त्वशुद्ध्येत्यर्थः । तथा वा चन्द्रिकावच्च=ज्योत्स्नावच्च, विज्ञानं केवलाद्युपमामात्रमेतत्, तदावरणं=ज्ञानाssवरणम्, अभ्रवत् = मेघपटलवदित्यर्थः ॥१८३॥ प्रकृतयोजनामाह ७० योगदृष्टिसंग्रह घातिकर्माभ्रकल्पं तदुक्तयोगाऽनिलाऽऽहतेः । यदाऽपैति तदा श्रीमान् जायते ज्ञानकेवली ॥ १८४ ॥ घातिकर्म=ज्ञानावरणीयादि । तथा (हि) ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयम्, अन्तरायं चेति । एतद्-अभ्रकल्पं वर्तते तद् घातिकर्म, उक्तयोगाऽनिलाऽहतेः=अनन्तरोदितयोगवायुघातादित्यर्थः । यदाऽपैति श्रेणिपरिसमाप्तौ, तदा श्रीमान्=असौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली - सर्वज्ञ इत्यर्थः ॥ १८४ ॥ अत एवाह क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलाऽन्वितः । परं परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥ १८५ ॥ क्षीणदोषः=सकलरागादिपरिक्षयेण । अथ तदैव । सर्वज्ञो निरावरणज्ञानभावेन सर्वज्ञ इत्यर्थः । सर्वलब्धिफलान्वितः सर्वोत्सुक्यनिवृत्त्या । परं परार्थं सम्पाद्य यथाभव्यं सम्यक्त्वादिलक्षणम् । ततो योगान्तमश्नुते= योगपर्यन्तमाप्नोति ॥१८५॥ तत्र द्रागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ॥१८६॥ तत्र = योगान्ते शैलेष्यवस्थायां द्रागेव शीघ्रमेव, हुस्वपञ्चाक्षरोगिरणमात्रेण कालेन, भगवान् = असौ, अयोगाद् = व्यापारात्, योगसत्तमाद्=योगप्रधानात् शैलेषीयोगादित्यर्थः । किमित्याह - भवव्याधिक्षयं कृत्वा सर्वप्रकारेण निर्वाणं लभते परं भावनिर्वाणमित्यर्थः ॥ १८६॥ तत्रायं कीदृश इत्याह

Loading...

Page Navigation
1 ... 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131