Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
१०२
योगदृष्टिसंग्रह संन्यासेनायोगाख्यस्य सर्वसंन्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति ॥१२॥
तात्त्विकोऽतात्त्विकश्चेति सामान्येन द्विधाऽप्ययम् । तात्त्विको वास्तवोऽन्यस्तु तदाभासः प्रकीर्तितः ॥१३॥
तात्त्विक इति । सामान्येन=विशेषभेदानुपग्रहेण तात्त्विकोऽतात्त्विकश्चेति द्विधाऽप्ययं योग इष्यते । तात्त्विको वास्तवः केनापि नयेन मोक्षयोजनफल इत्यर्थः । अन्य: अतात्त्विकस्तु तदाभास उक्तलक्षणविरहितोऽपि योगोचितवेषादिना योगवदाभासमानः प्रकीर्तितः ॥१३॥
योगविवेकद्वात्रिंशिका तत्स्वरूपमेव गृह्यते । क्षायोपशमिका: क्षयोपशमनिर्वृत्ताः क्षान्त्यादयो धर्माः, योगास्तु कायादिकर्म कायोत्सर्गकरणादयः कायादिव्यापाराः ॥११॥
द्वितीयाऽपूर्वकरणे प्रथमस्तात्त्विको भवेत् ।
आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥१२॥ द्वितीयेति । द्वितीयापूर्वकरण इति ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थं द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगासिद्धेः । अपूर्वकरणस्य तु तत्रासज्ञातपूर्वग्रन्थिभेदादिफलेनाभिधानात् यथाप्राधान्यमयमुपन्यासः । चारुश्च पश्चानुपूय॑ति समयविदः । ततो द्वितीयोऽस्मिस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्येयसागरोपमातिकमभाविनी प्रथमोधर्मसंन्याससज्ञितः सामर्थ्ययोग:तात्त्विकः पारमार्थिको भवेत् । क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसन्न्यासायाः प्रव्रज्याया ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्या भवविरक्त एवाधिकार्युक्तः । यथोक्तं
अथ प्रव्रज्याहः । आर्यदेशोत्पन्नः विशिष्टजातिकुलान्वितः । क्षीणप्रायकर्ममलबुद्धिः । दुर्लभं मानुष्यं, जन्ममरणनिमित्तं, सम्पदश्चलाः, विषया दुःखहेतवः, संयोगा वियोगान्ताः प्रतिक्षणं मरणं, दारुणो विपाक, इत्यवगतसंसारनैर्गुण्यस्तेन एव तद्विरक्तः, प्रतनुकषायोऽल्पहास्यादिः, कृतज्ञो, विनीतः, प्रागपि राजामात्यपौरजनबहुमतोऽद्रोहकारी, कल्याणः, श्राद्धः, स्थिरः, समुपसंपन्नश्चेति ।
न ह्यनीदृशो ज्ञानयोगमाराधयति, न चेदृशो नाराधयतीति भावनीयं, सर्वज्ञवचनमागमस्तत्रायमनिरूपितार्थ इति । (यो दृ. स. वृत्ति. १०) ।
आयोज्यकरणं केवलाभोगेनाचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापाराणां शैलेश्यवस्थाफलं तत ऊर्ध्वं द्वितीयो योगसंन्याससज्ञित इति तद्विदोऽभिदधति । शैलश्यवस्थायां कायादियोगानां
अपुनर्बन्धकस्यायं व्यवहारेण तात्त्विकः ।
अध्यात्मभावनारूपो निश्चयेनोत्तरस्य तु ॥१४॥ ___ अपुनर्बन्धकस्येति । अपुनर्बन्धकस्य उपलक्षणात्सम्यग्दृष्टेश्च । अयं= योगो व्यवहारेण । कारणस्यापि कार्योपचाररूपेण तात्त्विकोऽध्यात्मरूपो भावनारूपश्च । निश्चयेन निश्चयनयेनोपचारपरिहाररूपेण उत्तरस्य तु चारित्रिण एव ॥१४॥
सकृदावर्तनादीनामतात्त्विक उदाहृतः । प्रत्यपायफलप्रायस्तथावेषादिमात्रतः ॥१५॥
सकृदिति । सकृद एकवारमावर्तन्ते उत्कृष्टस्थिति बन्धन्तीति सकृदावर्तनाः, आदिशब्दाद् द्विरावर्तनादिग्रहः । तेषां तात्त्विको व्यवहारतः । निश्चयतश्चातत्त्वरूपोऽशुद्धपरिणामत्वादुदाहृतः अध्यात्मभावनारूपो योगः । प्रत्यपायोऽनर्थः फलं प्रायो बाहुल्येन यस्य स तथा । तथा तत्प्रकारभावमध्यात्मभावनायुक्तयोगियोग्यं यद् वेषादिमात्र नेपथ्यचेष्टाभाषालक्षणं श्रद्धानशून्यं वस्तु तस्मात् । तत्र हि वेषादिमात्रमेव स्यात्, न पुनस्तेषां काचिच्छ्रद्धालुतेति ॥१५॥

Page Navigation
1 ... 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131