Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 43
________________ योगदृष्टिसमुच्चयः तद्वत्सदातद्भावादिति । पक्षान्तरमाह सदैव हि तया विरोधेन तद्ग्रस्तत्वादिति ॥१९३॥ परोक्तिमात्र परिहारायाह स एव न भवत्येतदन्यथा भवतीतिवत् । विरुद्धं तन्नयादेव तदुत्पत्त्यादितस्तथा ॥ १९४॥ ७३ स एव इति भावपरामर्शः । न भवतीति चाऽभावाऽभिधानम् एतत् । किमित्याह-अन्यथाभवतीतिवत् इति निदर्शनम्, विरुद्धं व्याहतम्, तन्नयादेव स हि स एवान्यथा भवतीत्युक्ते एवमाह-'यदि स एव कथमन्यथा भवति ? अन्यथा चेद् भवति, कथं स ?' इति । एतच्च स एव न भवतीत्यत्रापि समानमेव । तथाहि 'यदि स एव कथं न भवति ? अभवत्वात्कथं स इति विरुद्धमेतत्' । अभ्युच्चयमाह तदुत्पत्त्यादितः इति = भावोत्पत्त्यादेः, तथा विरुद्धमिति ॥ १९४ ॥ एतद्भावनायैवाह सतोऽसत्त्वे तदुत्पादस्ततो नाशोऽपि तस्य यत् । तन्नष्टस्य पुनर्भावः सदा नाशे न तत्स्थितिः ॥ १९५॥ सतो=भावस्य असत्त्वेऽभ्युपगम्यमाने "स एव न भवति" इति वचनात् । किमित्याह - तदुत्पादः = इत्यसत्त्वोत्पादः कादाचित्कत्वेन । ततः= उत्पादात्, नाशोऽपि तस्य = असत्त्वस्य यदुत्पत्तिमत्तदनित्यम्' इति कृत्वा । यद्=यस्मात् । नष्टस्य=असत्त्वस्य, पुनर्भावः तेनैव रूपेण सदसत्त्वविनाशोन्यथानुपपत्तेः । अथ नाशो नाशात्मना भावात्प्राक्पश्चाच्चावस्थित एव एतदाशङ्क्याह- सदानाशे अभ्युपगम्यमाने । किमित्याह-न तत्स्थितिः = विवक्षितक्षणेऽपि तन्नश्यति ॥ १९५ ॥ ७४ योगदृष्टिसंग्रह स क्षणस्थितिधर्माचेद् द्वितीयादिक्षणे स्थितौ । युज्यते ह्येतदप्यस्य तथा चोक्ताऽनतिक्रमः ॥१९६॥ स=नाश:, क्षणस्थितिधर्मा चेद् भाव एव । एतदाशङ्क्याहद्वितीयादिक्षणे स्थितौ - सत्याम् । किमित्याह - युज्यते ह्येतदपि = क्षणस्थितिधर्मकत्वं, अस्य=अधिकृतभावस्य । तथा च = एवं सति । उक्ताऽनतिक्रमः ॥१९६॥ कथमित्याह क्षणस्थितौ तदैवास्य नास्थितिर्युक्त्यसङ्गतेः । न पश्चादपि सेत्येवं सतोऽसत्त्वं व्यवस्थितम् ॥१९७॥ क्षणस्थितौ सत्यां तदैव विवक्षितक्षणे अस्य विवक्षितभावस्यैव, नाऽस्थितिः । कुत इत्याह युक्त्यसङ्गतेः तदैवाऽस्थितिविरोधादिति युक्तिः । न पश्चादपि द्वितीयक्षणे, सा=अस्थितिर्न युक्त्यसङ्गतेरेव, "तदवस्थितौ तदस्थितिविरोधादिति" युक्तिः । इत्येवं सतोऽसत्त्वं व्यवस्थितम् । ततश्च सतोऽसत्त्वे तदुत्पाद इत्याद्यनुवर्तत एवेति ॥ १९७॥ नित्यपक्षमधिकृत्याह भवभावाऽनिवृत्तावप्ययुक्ता मुक्तकल्पना । एकान्तैकस्वभावस्य न ह्यवस्थाद्वयं क्वचित् ॥१९८॥ भवभावाऽनिवृत्तावपि = एकान्तनित्यतायाम् । किमित्याह - अयुक्ता मुक्तकल्पना आत्मनः । कथमयुक्तेत्याह - एकान्तैकस्वभावस्य = अप्रच्युताऽनुत्पन्नस्थिरैकस्वभावतायाः, न हि यस्मात् अवस्थाद्वयं=संसारिमुक्ताख्यं, क्वचित् एकान्तैकस्वभावत्वविरोधात् ॥१९८॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131