Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 45
________________ योगदृष्टिसमुच्चयः ७७ एकान्तलक्षणः तथैव हि यथा दृष्टान्ते । किमिवेत्याह-मुक्तोऽपि हन्त ! नो मुक्तो मुख्यवृत्त्या त्रयाणामपि तत्प्रवृत्तिनिमित्ताऽभावात् इति तद्विदः मुक्तविद इत्थमभिधतीति ॥२०५॥ कथं तर्हि मुक्तव्यवस्थेत्याह ७८ योगदृष्टिसंग्रह तथाविधकुलादियोग्यपेक्षया, लेशतो न विरुध्यते मनागतोऽपि योगपक्षपातादिभावात् ॥२०८॥ तदत्र क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः । भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् ॥२०६॥ क्षीणव्याधिः पुरुषः यथा लोकेऽविगानेन व्याधिमुक्त इति तत्तद्भावेन, स्थितो न स्थापनीयः । भवरोग्येव-न मुख्यतद्भावेन, तथा मुक्तः भवव्याधिमुक्तः, तन्त्रेषु स्थितः । तत्क्षयादिति भवरोगक्षयादित्यर्थः ॥२०६।। एव प्रकृतमभिधाय सर्वोपसंहारमाह अनेकयोगशास्त्रेभ्यः सङ्केपेण समुद्भूतः । दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥२०७॥ अनेकयोगशास्त्रेभ्यः पातञ्जलादिभ्यः, सझेपेण समासेन समुद्धृतः =तेभ्यः पृथक्कृतः नवनीतमिव क्षीरादिति । केन क इत्याह दृष्टिभेदेन उक्तलक्षणेन, योगोऽयं अधिकृत एव । किमर्थमित्याह-आत्मानुस्मृतये आत्मानुऽस्मृत्यर्थं पर:= प्रधानो योग इति ॥२०७॥ प्रयोजनाऽन्तरमप्याहकुलादियोगभेदेन चतुर्धा योगिनो यतः । अतः परोपकारोऽपि लेशतो न विरुध्यते ॥२०८॥ कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथाऽसिद्धयादिभावतः ॥२०९॥ कुलप्रवृत्तचक्रा ये=कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते चास्ययोगशास्त्रस्य, अधिकारिणो अर्हाः, योगिनो न तु सर्वेऽपि सामान्येन । कुत इत्याह तथा तेन प्रकारेण, असिद्ध्यादिभावत: गोत्रयोगिनामसिद्धिभावात्, आदिशब्दात्तु निष्पन्नयोगिनां तु सिद्धिभावादिति ॥२०९॥ एतद्विशेषलक्षणमाहये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥२१०॥ ये योगिनां कुले जाता जन्मनैव तद्धर्मानुगताश्च योगिधर्मानुगताश्च, ये प्रकृत्याऽन्येऽपि । कुलयोगिन उच्यन्ते इति गम्यते द्रव्यतो भावतश्च, गोत्रवन्तोऽपि सामान्येन भूमिभव्या अपि, नापरे कुलयोगिन इति ॥२१०॥ एतद्विशेषलक्षणमधिकृत्याहसर्वत्राऽद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥२११॥ कुलादियोगभेदेन गोत्रकुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन, चतुर्धा= चतुष्प्रकाराः, योगिनो यतः सामान्येन । अतः किमित्याह-परोपकारोऽपि सर्वत्राऽद्वेषिणश्चैते तथाऽऽग्रहाभावेन, तथा गुरुदेवद्विजप्रिया धर्मप्रभावात् । तता दयालवः प्रकृत्या क्लिष्टपापाऽभावेन, विनीताश्च कुशलाऽनुबन्धिभव्यतया । तथा बोधवन्तो ग्रन्थिभेदेन, यतेन्द्रियाश्चारित्रभावेन ॥२११।।

Loading...

Page Navigation
1 ... 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131