Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 50
________________ योगभेदद्वात्रिंशिका तदुक्तं सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु (षोड. १३.१०) ॥५॥ करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः ॥६॥ ८८ योगदृष्टिसंग्रह पुण्ये=प्राणिनां सुकृते द्वेषं, न तु तदनुमोदनेन हषम् । अधर्मिषु रागद्वेषौ, न तूपेक्षाम् । त्यजन्=परिहरन् एताः परिणतिशुद्धा मैत्राद्या लब्ध्वा अध्यात्म समाश्रयेत् । ___ निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्बोधमेव स्वभावतः परमार्थसारं चित्तम् । योगारम्भकाणां त्वभ्यासादेव सुखीादित्यागेन मैत्र्यादिविशुद्धिरिति । तदुक्तं एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ।। (षोड. १३-११) ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । पतञ्जलिरप्याह-मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमिति (१-३३) ॥७॥ करुणात इति । उपेक्षा हि माध्यस्थ्यलक्षणा । करुणातोऽहिते विषये भवत्येका, यथातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते । अपरा च अनुबन्धाद-आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले अनवसरे, यथा कश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानमनवेक्षमाणो माध्यस्थ्यमवलम्बत इति । अन्या च निर्वेदाद= भवसुखवैराग्यादसारे बहुतरदुःखानुविद्धत्वेन दु:खानतिविशिष्टे सुखे, यथा सर्वन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । इतरा च तत्त्वचिन्तनात्= मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य स्वापराधस्यैव च मोहादिकर्मविकारसमुत्थस्य भावनात् सर्वतः सर्वत्रैव स्वव्यतिरिक्तस्य कस्यापि सुखदुःखहेतुत्वानाश्रयणात् । तदुक्तं-करुणानुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति (षोड. १३.१०) ॥६॥ उक्तभेदानामेतासां मैत्र्यादीनां यथाक्रमं परिणममानानां विशुद्धस्वभावानामेवाध्यात्मोपयोग इति फलद्वारा दर्शयन्नाह अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव नु ॥८॥ अत इति । अतो अध्यात्मात् । पापक्षयो=ज्ञानावरणादिक्लिष्टकर्मप्रलयः । सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतम् अप्रतिघम् । तथेति वक्तव्यान्तरसमुच्चये । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षम् । अमृतं पीयूषम् । हि स्फुटम्, अद एव= अध्यात्ममेव नु अतिदारुणमोहविषविकारनिराकरकत्वादस्येति ॥८॥ सुखीया दुःखितोपेक्षां पुण्यद्वेषमधर्मिषु । रागद्वेषौ त्यजन्नेता लब्ध्वाऽध्यात्म समाश्रयेत् ॥७॥ सुखीति । सुखिष्वीयां न तु साध्वेषां सुखित्वमिति मैत्री । दुःखितानामुपेक्षां, न तु कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपा । अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ॥९॥ अभ्यास इति । प्रत्यहं प्रतिदिवसं वृद्धिमान् उत्कर्षमनुभवन् । बुद्धिसङ्गतो ज्ञानानुगतः । अस्य अध्यात्मस्य अभ्यासो अनुवर्तनं भावना=

Loading...

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131