Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 51
________________ योगभेदद्वात्रिंशिका उच्यते । अशुभाभ्यासात् कामक्रोधादिपरिचयात् । निवृत्तिः=उपरतिः । भाववृद्धिश्च शुद्धसत्त्वसमुत्कर्षरूपा । तत्फलं भावनाफलम् ॥९॥ ज्ञानदर्शनचारित्रतपोवैराग्यभेदतः ।। ईष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ॥१०॥ योगदृष्टिसंग्रह प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः । मुख्ये हेतुरदश्चात्र कृषिकर्मणि वारिवत् ॥१३॥ ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेनावश्यकभाष्यादिप्रसिद्धा पञ्चेष्यते । दृढस्य झटित्युपस्थितिहेतोः संस्कारस्य कारणम् । भावनाया एव पटुतरभावनाजनकत्वनियमात् ॥१०॥ प्रवृतिज इति । प्रवृत्तिजः क्रियाजनितः । क्लमो-मानसदु:खानुबन्धो प्रयासः खेदः । तत्र तस्मिन् सति । दाढ्य प्राणिधानैकाग्रत्वलक्षणं चेतसो न भवति । अदश्च प्रणिधानैकाग्रयं च । अत्र-योगकर्मणि । कृषिकर्मणि कृषिसाध्यधान्यनिष्पत्तौ । वारिवत् मुख्योऽसाधारणो हेतुः । तदुक्तं खेदे दायभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥ (षोड. १४.४) स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥१४॥ उपयोगे विजातीयप्रत्ययाव्यवधानभाक् । शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ॥११॥ उपयोग इति । उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने । विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारणालक्ष्यकालेनापि अव्यवधानभाग अनन्तरितः शुभैकप्रत्ययः प्रशस्तैकार्थबोधो ध्यानम् उच्यते । सूक्ष्माभोगेन=उत्पातादिविषयसूक्ष्मालोचनेन समन्वितं सहितम् ॥११॥ खेदोद्वेगभ्रमोत्थानक्षेपासङ्गान्यमुद्रुजाम् । त्यागादष्टपृथञ्चित्तदोषाणामनुबन्ध्यदः ॥१२॥ खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां । अष्टानां पृथक्चित्तदोषाणाम् योगिमनोदोषाणाम् । त्यागात्=परिहारात् । अदो ध्यानम् । अनुबन्धि उत्तरोत्तरवृद्धिमद्भवति । यद्यप्यन्यत्र खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः। युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ (षोड. १४.३) इत्येवं क्रमोऽभिहितस्तथाप्यत्र छन्दानुलोम्यावयत्ययेनाभिधानमिति द्रष्टव्यम् ॥१२॥ स्थितस्यैवेति । स्थितस्यैव अप्रवृत्तस्यैव । स क्लमः उद्वेग उच्यते । ततः अतस्मादनादरजनितात् योगद्वेषात् । क्रिया पारवश्यादिनिमित्ता प्रवृत्तिः । राजविष्टिसमा नृपनियुक्तानुष्ठानतुल्या । योगिना श्रीमतां श्राद्धानां कुले जन्म बाधते प्रतिबध्नाति । अनादरेण योगक्रियाणां योगिकुलजन्मबाधकत्वनियमात् । तदुक्तं उद्धेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेत्तद्विदामिष्टम् ॥ (षोड. १४.५) भ्रमोऽन्तर्विप्लवस्तत्र न कृताकृतवासना । तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् ॥१५॥ भ्रम इति । भ्रमोऽन्तविप्लव: चित्तविपर्ययः, शुक्तिकायां रजतमिदमितिवदतस्मिंस्तद्ग्रह इति यावत् । तत्र तस्मिन् सति । कृताकृत

Loading...

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131