Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 53
________________ योगभेदद्वात्रिंशिका रुजीति । रुजि - पीडारूपायां भङ्गरूपायां वा सत्यां । सम्यगनुष्ठानोच्छेदात् =सदनुष्ठानसामान्यविलयात् । वन्ध्यफलं = मोघप्रयोजनं हि तदनुष्ठानं बलात्कारेण क्रियमाणं । तदुक्तं रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ॥ ( षोड. १४.१०) तत्=तस्माद् एतान् दोषान् विना शान्तोदात्तस्य=क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं कुशलानुबन्धि ॥२०॥ वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः ॥२१॥ ९३ वशितेति । सर्वत्र = कार्ये । वशिता चैव आत्मायत्ततैव | भावस्य= अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव । अनुबन्धव्यवच्छेदो= भवान्तरारम्भकाणामितरेषां च कर्मणां वन्ध्यभावकरणं चेति एतद्ध्यानफलं विदुः=जानते ध्यानफलविदः ॥२१॥ व्यवहारकुदृष्ट्योच्चैरिष्टानिष्टेषु वस्तुषु । कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते ॥२२॥ व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या वितथगोचरया दुर्व्यवहारवासनयाऽविद्यापराभिधानया । उच्चैः = अतीव । कल्पितेषु इष्टानिष्टेषु = इन्द्रियमन: प्रमोददायिषु तदितरेषु च वस्तुषु = शब्दादिषु । विवेकेन= तावार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य । निश्चयतो नानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ ( प्रशमरति ५२) इत्यादिनिश्चयालोचनेन । तत्त्वधी: = इष्टानिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । यदुक्तं ९४ योगदृष्टिसंग्रह अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । सञ्ज्ञानात्तद्व्युदासेन समता समतोच्यते ॥ ( योगबिन्दुः ३६४ ) विनैतया न हि ध्यानं ध्यानेनेयं विना च न । ततः प्रवृत्तचक्रं स्याद् द्वयमन्योऽन्यकारणात् ॥२३॥ विनेति । एतया समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गाSनुपरमात् । ध्यानेन विना चेयं समता न भवति, प्रतिपक्षसामग्रया बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं । अन्योऽन्यकारणात् प्रवृत्तचक्रम्= अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, अप्रकृष्टयोस्तयोर्मिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् ॥२३॥ ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते ॥२४॥ ऋद्धीति । ऋद्धीनाम् = आमर्षौषध्यादीनामनुपजीवनेन अप्रवर्तनम्= अव्यापारणम् । सूक्ष्माणां = केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां क्षयः । तथेति समुच्चये । अपेक्षैव बन्धनहेतुत्वात् तन्तुः तद्वयवच्छेदः फलमस्या:=समताया: प्रचक्षते विचक्षणाः ||२४|| विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः ॥२५॥ विकल्पेति । स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनः अन्यजन्मनां=पवनस्थानीयस्वेतरतथाविधमनः शरीरद्रव्यसंयोगजनितानां विकल्पस्यन्दरूपाणां वृत्तीनां । अपुनर्भावतः = पुनरुत्पत्तियोग्यतापरिहारात् । रोधः= परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृतिसङ्क्षयः प्रोच्यते । तदाह

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131