________________
योगभेदद्वात्रिंशिका
रुजीति । रुजि - पीडारूपायां भङ्गरूपायां वा सत्यां । सम्यगनुष्ठानोच्छेदात् =सदनुष्ठानसामान्यविलयात् । वन्ध्यफलं = मोघप्रयोजनं हि तदनुष्ठानं बलात्कारेण क्रियमाणं । तदुक्तं
रुजि निजजात्युच्छेदात्करणमपि हि नेष्टसिद्धये नियमात् । अस्येत्यननुष्ठानं तेनैतद्वन्ध्यफलमेव ॥ ( षोड. १४.१०)
तत्=तस्माद् एतान् दोषान् विना शान्तोदात्तस्य=क्रोधादिविकाररहितोदाराशयस्य योगिनो ध्यानं हितं कुशलानुबन्धि ॥२०॥
वशिता चैव सर्वत्र भावस्तैमित्यमेव च । अनुबन्धव्यवच्छेदश्चेति ध्यानफलं विदुः ॥२१॥
९३
वशितेति । सर्वत्र = कार्ये । वशिता चैव आत्मायत्ततैव | भावस्य= अन्तःकरणपरिणामस्य स्तैमित्यमेव च = निश्चलत्वमेव । अनुबन्धव्यवच्छेदो= भवान्तरारम्भकाणामितरेषां च कर्मणां वन्ध्यभावकरणं चेति एतद्ध्यानफलं विदुः=जानते ध्यानफलविदः ॥२१॥
व्यवहारकुदृष्ट्योच्चैरिष्टानिष्टेषु वस्तुषु ।
कल्पितेषु विवेकेन तत्त्वधीः समतोच्यते ॥२२॥
व्यवहारेति । व्यवहारकुदृष्ट्या = अनादिमत्या वितथगोचरया दुर्व्यवहारवासनयाऽविद्यापराभिधानया । उच्चैः = अतीव । कल्पितेषु इष्टानिष्टेषु = इन्द्रियमन: प्रमोददायिषु तदितरेषु च वस्तुषु = शब्दादिषु । विवेकेन=
तावार्थान् द्विषतस्तानेवार्थान् प्रलीयमानस्य ।
निश्चयतो नानिष्टं न विद्यते किञ्चिदिष्टं वा ॥ ( प्रशमरति ५२)
इत्यादिनिश्चयालोचनेन । तत्त्वधी: = इष्टानिष्टत्वपरिहारेण तुल्यताधीरुपेक्षालक्षणा समतोच्यते । यदुक्तं
९४
योगदृष्टिसंग्रह
अविद्याकल्पितेषूच्चैरिष्टानिष्टेषु वस्तुषु । सञ्ज्ञानात्तद्व्युदासेन समता समतोच्यते ॥ ( योगबिन्दुः ३६४ )
विनैतया न हि ध्यानं ध्यानेनेयं विना च न । ततः प्रवृत्तचक्रं स्याद् द्वयमन्योऽन्यकारणात् ॥२३॥
विनेति । एतया समतया विना हि ध्यानं न स्यात्, चित्तव्यासङ्गाSनुपरमात् । ध्यानेन विना चेयं समता न भवति, प्रतिपक्षसामग्रया बलवत्त्वात् । अतो द्वयं = ध्यानसमतालक्षणं । अन्योऽन्यकारणात् प्रवृत्तचक्रम्= अनुपरतप्रवाहं स्यात् । न चैवमन्योऽन्याश्रयः, अप्रकृष्टयोस्तयोर्मिथ उत्कृष्टयोर्हेतुत्वात् । सामान्यतस्तु क्षयोपशमभेदस्यैव हेतुत्वादिति ज्ञेयम् ॥२३॥
ऋद्ध्यप्रवर्तनं चैव सूक्ष्मकर्मक्षयस्तथा । अपेक्षातन्तुविच्छेदः फलमस्याः प्रचक्षते ॥२४॥
ऋद्धीति । ऋद्धीनाम् = आमर्षौषध्यादीनामनुपजीवनेन अप्रवर्तनम्= अव्यापारणम् । सूक्ष्माणां = केवलज्ञानदर्शनयथाख्यातचारित्राद्यावारकाणां कर्मणां क्षयः । तथेति समुच्चये । अपेक्षैव बन्धनहेतुत्वात् तन्तुः तद्वयवच्छेदः फलमस्या:=समताया: प्रचक्षते विचक्षणाः ||२४||
विकल्पस्यन्दरूपाणां वृत्तीनामन्यजन्मनाम् । अपुनर्भावतो रोधः प्रोच्यते वृत्तिसङ्क्षयः ॥२५॥
विकल्पेति । स्वभावत एव निस्तरङ्गमहोदधिकल्पस्यात्मनः अन्यजन्मनां=पवनस्थानीयस्वेतरतथाविधमनः शरीरद्रव्यसंयोगजनितानां विकल्पस्यन्दरूपाणां वृत्तीनां । अपुनर्भावतः = पुनरुत्पत्तियोग्यतापरिहारात् । रोधः= परित्यागः केवलज्ञानलाभकाले अयोगिकेवलित्वकाले च वृतिसङ्क्षयः प्रोच्यते । तदाह