________________
योगदृष्टिसंग्रह
क्षेपेऽपि चाप्रबन्धादिष्टफलसमृद्धये न जात्वेतत् । नासकृदुत्पाटनतः शालिरपि फलावहः पुंसः ॥ (षोड. १४.६)
योगभेदद्वात्रिंशिका वासना=इदं मया कृतमिदं वा न कृतमित्येवंरूपा वासना न भवति । विभ्रमदोषेण सत्यसंस्कारनाशाद्विपरीतसंस्कारोत्पादाद्वा । तां कृताकृतवासनां विना योगकरणं प्रस्तुतार्थस्य योगसिद्धिलक्षणस्य विरोधकृत् संस्काररहितयोगस्य तादृशयोग एव हेतुत्वादिति भावः । तदिदमुक्तं
भ्रान्तौ विभ्रमयोगान्न हि संस्कारः कृतेतरादिगतः । तदभावे तत्करणं प्रक्रान्तविरोध्यनिष्टफलम् ॥ (षोड. १४.८)
आसङ्गः स्यादभिष्वङ्गस्तत्राऽसङ्गक्रियैव न । ततोऽयं हन्त तन्मात्रगुणस्थानस्थितिप्रदः ॥१८॥
आसङ्ग इति । आसङ्गोऽभिष्वङ्गः स्यात् इदमेव सुन्दरमनुष्ठानमित्येवं नियताभिनिवेशरूपः । तत्र तस्मिन् सति । असङ्गक्रियैव अभिष्वङ्गाभाववत्यनवरतप्रवृत्तिरेव न भवति । ततोऽयम् आसङ्गो हन्त तन्मात्रगुणस्थाने अधिकृतगुणस्थानमात्रे स्थितिप्रदः=न तु मोहोन्मूलनद्वारेण केवलज्ञानोत्पत्तये प्रभवतीत्यासङ्गादपि तत्त्वतोऽफलमेवानुष्ठानम् । तदाह
आसङ्गेऽप्यविधानादसङ्गसक्त्युचितमित्यफलमेतत् । भवतीष्टफलदमुच्चैस्तदप्यसङ्गं यतः परमम् ॥ (षोड. १४.११) विहितेऽविहिते वाऽर्थेऽन्यत्र मुत्प्रकृतात्किल । इष्टेऽर्थेऽङ्गारवृष्ट्याभाऽत्यनादरविधानतः ॥१९॥
प्रशान्तवाहिताभाव उत्थानं करणं ततः । त्यागानुरूपमत्यागं निर्वेदादतथोदयम् ॥१६॥
प्रशान्तेति । प्रशान्तवाहितायाः प्रशमैकवृत्तिसन्तानस्य अभावो, मनःप्रभृतीनामुद्रेकान्मदावष्टब्धपुरुषवदुत्थानमुच्यते । ततः करणं योगस्य त्यागाऽनुरूपं परिहारोचितं प्रशान्तवाहिताऽभावदोषात् । अत्यागं न विद्यते त्यागो यस्य तत्तथा कथञ्चिदुपादेयत्वात् निर्वेदाद=एकवृत्तिभङ्गलक्षणात् खेदात् (अतथोदयम्= ) न विद्यते तथा योगकरणोचितत्वेन उदयो भाविकालविपाको यत्र तथा । तदुक्तं
उत्थाने निर्वेदात्करणमकरणोदयं सदैवास्य ।। अत्यागत्यागोचितमेतत्तु स्वसमयेऽपि मतम् ॥ (षोड. १४.७) क्षेपोऽन्तराऽन्तराऽन्यत्र चित्तन्यासोऽफलावहः । शालेरपि फलं नो यद् दृष्टमुत्खननेऽसकृत् ॥१७॥
क्षेप इति । अन्तरान्तरा योगकरणकालस्यैव । अन्यत्र=अधिकृतान्यकर्मणि । चित्तन्यासः क्षेपः स च-अफलावहः फलाजनकः । यद्= यस्माच्छालेरपि व्रीहेरपि । असकृदु वारंवारम् । उत्खनने उत्पाटने फलं न दृष्टम् । असकृद् उत्पाटनेन शालेरिव क्षेपेण योगस्य फलजननशक्तिनाशान्न ततः फलमिति भावः । तदुक्तं
विहित इति । प्रकृतात् प्रस्तुतात् कर्मणो अन्यत्र विहितेऽविहिते वाऽर्थे । मुत्=प्रीतिः । इष्टेऽर्थेऽङ्गारवृष्ट्याभा अत्यनादरस्य गाढाऽबहुमानस्य विधानतो अवसरोचितरागाभावरागविषयानवसराभ्यां प्रतिपक्षरागाच्च । यथा
चैत्यवन्दनस्वाध्यायकरणादिषु प्रतिनियतकालविषयेषु श्रुतानुरागादन्यासक्तचित्ततया वा चैत्यवन्दनाद्यनाद्रियमाणस्य । तदुक्तं
अन्यमुदि तत्र रागात्तदनादरतार्थतो महापाया । सर्वानर्थनिमित्तं मुद् विषयाङ्गवृष्ट्याभा ॥ (षोड. १४.९) रुजि सम्यगनुष्ठानोच्छेदाद्वन्ध्यफलं हि तत् । एतान् दोषान् विना ध्यानं शान्तोदात्तस्य तद्धितम् ॥२०॥