________________
योगभेदद्वात्रिंशिका उच्यते । अशुभाभ्यासात् कामक्रोधादिपरिचयात् । निवृत्तिः=उपरतिः । भाववृद्धिश्च शुद्धसत्त्वसमुत्कर्षरूपा । तत्फलं भावनाफलम् ॥९॥
ज्ञानदर्शनचारित्रतपोवैराग्यभेदतः ।। ईष्यते पञ्चधा चेयं दृढसंस्कारकारणम् ॥१०॥
योगदृष्टिसंग्रह प्रवृत्तिजः क्लमः खेदस्ततो दाढ्यं न चेतसः । मुख्ये हेतुरदश्चात्र कृषिकर्मणि वारिवत् ॥१३॥
ज्ञानेति । इयं च भावना भाव्यमानज्ञानादिभेदेनावश्यकभाष्यादिप्रसिद्धा पञ्चेष्यते । दृढस्य झटित्युपस्थितिहेतोः संस्कारस्य कारणम् । भावनाया एव पटुतरभावनाजनकत्वनियमात् ॥१०॥
प्रवृतिज इति । प्रवृत्तिजः क्रियाजनितः । क्लमो-मानसदु:खानुबन्धो प्रयासः खेदः । तत्र तस्मिन् सति । दाढ्य प्राणिधानैकाग्रत्वलक्षणं चेतसो न भवति । अदश्च प्रणिधानैकाग्रयं च । अत्र-योगकर्मणि । कृषिकर्मणि कृषिसाध्यधान्यनिष्पत्तौ । वारिवत् मुख्योऽसाधारणो हेतुः । तदुक्तं
खेदे दायभावान्न प्रणिधानमिह सुन्दरं भवति । एतच्चेह प्रवरं कृषिकर्मणि सलिलवज्ज्ञेयम् ॥ (षोड. १४.४)
स्थितस्यैव स उद्वेगो योगद्वेषात्ततः क्रिया । राजविष्टिसमा जन्म बाधते योगिनां कुले ॥१४॥
उपयोगे विजातीयप्रत्ययाव्यवधानभाक् ।
शुभैकप्रत्ययो ध्यानं सूक्ष्माभोगसमन्वितम् ॥११॥
उपयोग इति । उपयोगे स्थिरप्रदीपसदृशे धारालग्ने ज्ञाने । विजातीयप्रत्ययेन तद्विच्छेदकारिणा विषयान्तरसञ्चारणालक्ष्यकालेनापि अव्यवधानभाग अनन्तरितः शुभैकप्रत्ययः प्रशस्तैकार्थबोधो ध्यानम् उच्यते । सूक्ष्माभोगेन=उत्पातादिविषयसूक्ष्मालोचनेन समन्वितं सहितम् ॥११॥
खेदोद्वेगभ्रमोत्थानक्षेपासङ्गान्यमुद्रुजाम् । त्यागादष्टपृथञ्चित्तदोषाणामनुबन्ध्यदः ॥१२॥
खेदेति । खेदादीनां वक्ष्यमाणलक्षणानां । अष्टानां पृथक्चित्तदोषाणाम् योगिमनोदोषाणाम् । त्यागात्=परिहारात् । अदो ध्यानम् । अनुबन्धि उत्तरोत्तरवृद्धिमद्भवति । यद्यप्यन्यत्र
खेदोद्वेगक्षेपोत्थानभ्रान्त्यन्यमुद्रुगासङ्गैः। युक्तानि हि चित्तानि प्रबन्धतो वर्जयेन्मतिमान् ॥ (षोड. १४.३)
इत्येवं क्रमोऽभिहितस्तथाप्यत्र छन्दानुलोम्यावयत्ययेनाभिधानमिति द्रष्टव्यम् ॥१२॥
स्थितस्यैवेति । स्थितस्यैव अप्रवृत्तस्यैव । स क्लमः उद्वेग उच्यते । ततः अतस्मादनादरजनितात् योगद्वेषात् । क्रिया पारवश्यादिनिमित्ता प्रवृत्तिः । राजविष्टिसमा नृपनियुक्तानुष्ठानतुल्या । योगिना श्रीमतां श्राद्धानां कुले जन्म बाधते प्रतिबध्नाति । अनादरेण योगक्रियाणां योगिकुलजन्मबाधकत्वनियमात् । तदुक्तं
उद्धेगे विद्वेषाद्विष्टिसमं करणमस्य पापेन । योगिकुलजन्मबाधकमलमेत्तद्विदामिष्टम् ॥ (षोड. १४.५) भ्रमोऽन्तर्विप्लवस्तत्र न कृताकृतवासना ।
तां विना योगकरणं प्रस्तुताऽर्थविरोधकृत् ॥१५॥
भ्रम इति । भ्रमोऽन्तविप्लव: चित्तविपर्ययः, शुक्तिकायां रजतमिदमितिवदतस्मिंस्तद्ग्रह इति यावत् । तत्र तस्मिन् सति । कृताकृत