________________
योगभेदद्वात्रिंशिका
तदुक्तं सुखमात्रे सद्धेतावनुबन्धयुते परे च मुदिता तु (षोड. १३.१०) ॥५॥
करुणातोऽनुबन्धाच्च निर्वेदात्तत्त्वचिन्तनात् । उपेक्षा ह्यहितेऽकाले सुखेऽसारे च सर्वतः ॥६॥
८८
योगदृष्टिसंग्रह पुण्ये=प्राणिनां सुकृते द्वेषं, न तु तदनुमोदनेन हषम् । अधर्मिषु रागद्वेषौ, न तूपेक्षाम् । त्यजन्=परिहरन् एताः परिणतिशुद्धा मैत्राद्या लब्ध्वा अध्यात्म समाश्रयेत् ।
___ निष्पन्नयोगानां हि मैत्र्यादिरहितं सद्बोधमेव स्वभावतः परमार्थसारं चित्तम् । योगारम्भकाणां त्वभ्यासादेव सुखीादित्यागेन मैत्र्यादिविशुद्धिरिति ।
तदुक्तं
एताः खल्वभ्यासात् क्रमेण वचनानुसारिणां पुंसाम् । सद्वृत्तानां सततं श्राद्धानां परिणमन्त्युच्चैः ।। (षोड. १३-११)
ततश्च निरपायोऽध्यात्मलाभ इति स्थितम् । पतञ्जलिरप्याह-मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनातश्चित्तप्रसादनमिति (१-३३) ॥७॥
करुणात इति । उपेक्षा हि माध्यस्थ्यलक्षणा । करुणातोऽहिते विषये भवत्येका, यथातुरस्य स्वातन्त्र्यादपथ्यं सेवमानस्य करुणया तन्निवारणमवधीर्योपेक्षा क्रियते । अपरा च अनुबन्धाद-आयत्यालोचनेन कार्यविषयप्रवाहपरिणामाद् अकाले अनवसरे, यथा कश्चिदालस्यादेरर्थार्जनादिषु न प्रवर्तते, तं चाप्रवर्तमानं कदाचित्तद्धितार्थी प्रवर्तयति, कदाचित्तु परिणामसुन्दरं कार्यसन्तानमनवेक्षमाणो माध्यस्थ्यमवलम्बत इति । अन्या च निर्वेदाद= भवसुखवैराग्यादसारे बहुतरदुःखानुविद्धत्वेन दु:खानतिविशिष्टे सुखे, यथा सर्वन्द्रियोत्सवकरं संसारिसुखमनुपश्यतोऽपि योगिनः । इतरा च तत्त्वचिन्तनात्= मनोज्ञामनोज्ञानां वस्तूनां परमार्थतो रागद्वेषानुत्पादकत्वस्य स्वापराधस्यैव च मोहादिकर्मविकारसमुत्थस्य भावनात् सर्वतः सर्वत्रैव स्वव्यतिरिक्तस्य कस्यापि सुखदुःखहेतुत्वानाश्रयणात् ।
तदुक्तं-करुणानुबन्धनिर्वेदतत्त्वसारा ह्युपेक्षेति (षोड. १३.१०) ॥६॥
उक्तभेदानामेतासां मैत्र्यादीनां यथाक्रमं परिणममानानां विशुद्धस्वभावानामेवाध्यात्मोपयोग इति फलद्वारा दर्शयन्नाह
अतः पापक्षयः सत्त्वं शीलं ज्ञानं च शाश्वतम् । तथाऽनुभवसंसिद्धममृतं ह्यद एव नु ॥८॥
अत इति । अतो अध्यात्मात् । पापक्षयो=ज्ञानावरणादिक्लिष्टकर्मप्रलयः । सत्त्वं वीर्योत्कर्षः । शीलं चित्तसमाधिः । ज्ञानं च वस्त्ववबोधरूपम् । शाश्वतम् अप्रतिघम् । तथेति वक्तव्यान्तरसमुच्चये । अनुभवसंसिद्धं स्वसंवेदनप्रत्यक्षम् । अमृतं पीयूषम् । हि स्फुटम्, अद एव= अध्यात्ममेव नु अतिदारुणमोहविषविकारनिराकरकत्वादस्येति ॥८॥
सुखीया दुःखितोपेक्षां पुण्यद्वेषमधर्मिषु । रागद्वेषौ त्यजन्नेता लब्ध्वाऽध्यात्म समाश्रयेत् ॥७॥
सुखीति । सुखिष्वीयां न तु साध्वेषां सुखित्वमिति मैत्री । दुःखितानामुपेक्षां, न तु कथं नु नामैतेषां दुःखविमुक्तिः स्यादिति कृपा ।
अभ्यासो वृद्धिमानस्य भावना बुद्धिसङ्गतः । निवृत्तिरशुभाभ्यासाद् भाववृद्धिश्च तत्फलम् ॥९॥
अभ्यास इति । प्रत्यहं प्रतिदिवसं वृद्धिमान् उत्कर्षमनुभवन् । बुद्धिसङ्गतो ज्ञानानुगतः । अस्य अध्यात्मस्य अभ्यासो अनुवर्तनं भावना=