________________
त्राह
योगभेदद्वात्रिंशिका
अनन्तरं पुरुषकारप्राधान्येन चारित्रप्राप्तौ योगप्रवृत्तिरुक्तेति तद्भेदानेवा
अध्यात्मं भावना ध्यानं समता वृत्तिसङ्क्षयः । योगः पञ्चविधः प्रोक्तो योगमार्गविशारदैः ॥ १ ॥
अध्यात्ममिति । व्यक्तः ॥ १ ॥
औचित्याद् वृत्तयुक्तस्य वचनात्तत्त्वचिन्तनम् । मैत्र्यादिभावसंयुक्तमध्यात्मं तद्विदो विदुः ॥ २ ॥
औचित्यादिति । औचित्याद्=उचितप्रवृत्तिलक्षणात् वृत्तयुक्तस्य= अणुव्रतमहाव्रतसमन्वितस्य । वचनात् = जिनागमात् । तत्त्वचिन्तनं जीवादिपदार्थसार्थपर्यालोचनम् । मैत्र्यादिभावैः = मैत्रीकरुणामुदितोपेक्षालक्षणैः समन्वितं=सहितम् अध्यात्मं तद्विदो= अध्यात्मज्ञातारो विदुः = जानते ॥२॥
सुखचिन्ता मता मैत्री सा क्रमेण चतुर्विधा । उपकारिस्वकीयस्वप्रतिपन्नाऽखिलाश्रया ॥३॥
सुखेति । सुखचिन्ता = सुखेच्छा मैत्री मता । सा क्रमेण= विषयभेदेन चतुर्विधा । उपकारी= स्वोपकारकर्ता, स्वकीयो =अनुपकर्ताऽपि
योगदृष्टिसंग्रह
नालप्रतिबद्धादिः, स्वप्रतिपन्नश्च = स्वपूर्वपुरुषाश्रितः स्वाश्रितो वा अखिलाश्च= प्रतिपन्नत्वसम्बन्धनिरपेक्षाः सर्व एव तदाश्रया तद्विषया । तदुक्तम् -
उपकारिस्वजनेतरसामान्यगता चतुर्विधा मैत्रीति ॥ ( षोड० १३९)
८६
करुणा दुःखहानेच्छा मोहाद् दुःखितदर्शनात् । संवेगाच्च स्वभावाच्च प्रीतिमत्स्वपरेषु च ॥४॥
करुणेति । दुःखहानस्य = दुःखपरिहारस्य इच्छा करुणा । साच मोहाद्-अनारेका । यथा ग्लानयाचितापथ्यवस्तुप्रदानाभिलाषलक्षणा । अन्या च दुःखितस्य=दीनादेर्दर्शनात् तस्य लोकप्रसिद्धाहारवस्त्रशयनासनादिप्रदानेन । संवेगात्=मोक्षाभिलाषाच्च सुखितेष्वपि सत्त्वेषु प्रीतिमत्सु सांसारिकदुःखपरित्राणेच्छा छद्मस्थानाम् अपरा । अपरा पुनः परेषु च प्रीतिमत्तासम्बन्धविकलेषु सर्वेष्वेव स्वभावाच्च प्रवर्तमाना केवलिनामिव भगवतां महामुनीनां सर्वानुग्रहपरायणानामित्येवं चतुर्विधा । तदुक्तं
मोहासुखसंवेगान्यहितयुता चैव करुणेति ( षोड. १३९) ॥
आपातरम्ये सद्धेतावनुबन्धयुते परे । सन्तुष्टिर्मुदिता नाम सर्वेषां प्राणिनां सुखे ॥५॥
आपातेति । मुदिता नाम सन्तुष्टिः । सा चाद्या आपातरम्ये= अपथ्याहारतृप्तिजनितपरिणामासुन्दरसुखकल्पे तत्कालमात्ररमणीये स्वपरगते वैषयिके सुखे । द्वितीया तु सद्धेतौ शोभनकारणे ऐहिकसुखविशेषे एव परदृष्टहितमिताहारपरिभोगजनितस्वादुरसास्वादसुखकल्पे । तृतीया च अनुबन्धयुते=अव्यवच्छिन्नसुखपरम्परया देवमनुजजन्मसु कल्याणप्राप्तिलक्षणे इहपरभवानुगते । चतुर्थी तु परे प्रकृष्टे मोहक्षयादिसम्भवे अव्याबाधे च सर्वेषां प्राणिनां सुखे इत्येवं चतुर्विधा ।