________________
योगदृष्टिसमुच्चयः
नैतद्विदस्त्वयोग्येभ्यो ददत्येनं तथापि तु । हरिभद्र इदं प्राह नैतेभ्यो देय आदरात् ॥२२६॥
योगदृष्टिसंग्रह
नैतद्विदस्तु=आचार्याः, अयोग्येभ्यो अन्येभ्यो, ददति यच्छन्ति, एनं योगदृष्टिसमुच्चयाख्यं ग्रन्थम् । तथापि तु एवमपि व्यवस्थिते । हरिभद्रो ग्रन्थकृत्, इदं प्राह किमित्याह-नैतेभ्य: अयोग्येभ्यः, देयः अयं योगदृष्टिसमुच्चयः, आदरात्=आदरेण इदं प्राह ॥२२६॥ किमेतदेवमित्याह
अवज्ञह कृताऽल्पाऽपि यदनाय जायते । अतस्तत्परिहाराऽर्थं न पुनर्भावदोषतः ॥२२७॥
अवज्ञेह-योगदृष्टिसमुच्चयाख्ये ग्रन्थे, कृताऽल्पापि स्वरूपेण । यद्= यस्मात् । अनर्थाय जायते महाविषयत्वेन । अतस्तत्परिहारार्थं न पुनर्भावदोषतः क्षुद्रतया हरिभद्र इदं प्राहेति ॥२२७॥
इत्थं चैतदङ्गीकर्तव्यम् । यत एवाहयोग्येभ्यस्तु प्रयत्नेन देयोऽयं विधिनाऽन्वितैः । मात्सर्यविरहेणोच्चैः श्रेयोविघ्नप्रशान्तये ॥२२८॥
योग्येभ्यस्तु श्रोतृभ्यः प्रयत्नेन उपयोगसारेण, देयोऽयं विधिना= श्रवणादिगोचरेण । अन्वितैर्युक्तैः, दोषोऽन्यथा प्रत्यवायसम्भवादित्याचार्याः । मात्सर्यविरहेण मात्सर्याभावेन, उच्चैः श्रेयोविघ्नप्रशान्तये पुण्यान्तरायप्रशान्त्यर्थमिति ॥२२८॥
॥ समाप्तोऽयं योगदृष्टिसमुच्चयः ॥ ॥ कृतिः श्वेतभिक्षोराचार्यश्रीहरिभद्रस्येति ॥ ॥ सवृत्तिर्योगदृष्टिसमुच्चयः समाप्तः ॥
श्रीयशोयोगदृष्टिः