________________
योगदृष्टिसमुच्चयः
योगदृष्टिसंग्रह
सद्भिः कल्याणसम्पन्नैर्दर्शनादपि पावनैः । तथादर्शनतो योग आद्यावञ्चक उच्यते (ईष्यते) ॥२१९॥
बीजपुष्ट्या ॥२२२॥
क: पक्षपातमात्रादुपकार इत्याशङ्कापोहायाह
सद्भिः कल्याणसम्पन्नः विशिष्टपुण्यवद्भिः दर्शनादपि पावनैः= अवलोकनेनाऽपि पवित्रैः । तथा तेन प्रकारेण गुणवत्तया विपर्ययाभावेन दर्शनं =तथादर्शनम् । ततस्तेन, यो योगः सम्बन्धस्तैः सह स आद्यावञ्चक इष्यते सद्योगाऽवञ्चक इत्यर्थः ॥२१९॥
तात्त्विकः पक्षपातश्च भावशून्या च या क्रिया । अनयोरन्तरं ज्ञेयं भानुखद्योतयोरिव ॥२२३॥
तात्त्विकः पक्षपातश्च पारमार्थिक इत्यर्थः । भावशून्या च या क्रिया इति, कयोरिखेत्याह भानुखद्योतयोरिव महदन्तरमित्यर्थः ॥२२३॥
तथा चाह
तेषामेव प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोग: स्यान्महापापक्षयोदयः ॥२२०॥
खद्योतकस्य यत्तेजस्तदल्पं च विनाशि च । विपरीतमिदं भानोरिति भाव्यमिदं बुधैः ॥२२४॥
तेषामेव=सतां, प्रणामादिक्रियानियम इत्यलम् । क्रियावञ्चकयोग: स्याद् भवेदिति । अयं च महापापक्षयोदयो नीचैर्गोत्रकर्मक्षयकृदिति भावः ॥२२०॥
फलवञ्चकयोगस्तु सद्भ्य एव नियोगतः । सानुबन्धफलाऽवाप्तिधर्मसिद्धौ सतां मता ॥२२१॥
फलाऽवञ्चकयोगस्तु चरमो योगोत्तमः । किम्भूत इत्याह-सद्भ्य एव अनन्तरोदितेभ्यः, नियोगत: अवश्यंतया, सानुबन्धफलाऽवाप्तिः तथा सदुपदेशादिना, धर्मसिद्धौ विषये, सतां मता इति ॥२२१॥
एवमेषां स्वरूपमभिधाय प्रकृतयोजनमाहकुलादियोगिनामस्मान्मत्तोऽपि जडधीमताम् । श्रवणात्पक्षपातादेरुपकारोऽस्ति लेशतः ॥२२२॥
खद्योतकस्य सत्त्वविशेषस्य, यत्तेजः प्रकाशात्मकम्, तत्, किमित्याह-अल्पं च विनाशि च स्वरूपेण । विपरीतमिदं भानो: बहु अविनाशि चादित्यस्येति । इति एवं भाव्यमिदम् अधिकृतपक्षपातादेतत्क्रियादिकं, बुधैः तत्त्वनीत्येति ॥२२४॥
विशेषमाहश्रवणे प्रार्थनीयाः स्युन हि योग्याः कदाचन । यत्नः कल्याणसत्त्वानां महारत्ने स्थितो यतः ॥२२५॥
श्रवणे श्रवणविषये, प्रार्थनीयाः स्युः भवेयुः । न हि योग्याः कदाचन शुश्रूषाभावेन स्वतः प्रवृत्तेः । तथा चाह-यत्नः कल्याणसत्त्वानां पुण्यवतां, महारत्ने चिन्तामण्यादिविषयः, स्थितो यतः तथौचित्ययोगेन, पक्षपातादेरपि जन्मान्तराऽवाप्तिश्रुतेः ॥२२५॥
अयोग्यदानदोषपरिहारायाह
कुलादियोगिनाम् उक्तलक्षणानां, अस्माद्=योगदृष्टिसमुच्चयात्, मत्तोऽपि सकाशात्, जडधीमताम् अन्येषाम् । किमित्याह-श्रवणात्= श्रवणेन, पक्षपातादे:=पक्षपातशुभेच्छादेः, उपकारोऽस्ति लेशतः तथा