________________
योगदृष्टिसमुच्चयः
प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः ॥ २१२ ॥
प्रवृत्तचक्रास्तु पुनः, किंविशिष्टा भवन्तीत्याह यमद्वयसमाश्रयाः इच्छायमप्रवृत्तियमाश्रया इत्यर्थः, शेषद्वयार्थिनः = स्थिरयमसिद्धियमद्वयार्थिनः इत्युक्तं भवति । अत्यन्तं सदुपायप्रवृत्त्येति । अत एव शुश्रूषादिगुणान्विताः= शुश्रूषा श्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशगुणयुक्ताः ॥ २१२ ॥
तथा
७९
आद्यावञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥ २१३॥
आद्यावञ्चकयोगाप्त्या हेतुभूतया तदन्यद्वयलाभिनः क्रियावञ्चकफलावञ्चकद्वयलाभिनः, तदवन्ध्यभव्यतयैवम्भूताः । किमित्याह-अधिकारिणः । कस्येत्याह-योगप्रयोगस्य = अधिकृतस्य, इति = एवं तद्विदो= योगविदः । अभिदधति इति शेषः ॥ २१३||
उपन्यस्तयमादिस्वरूपमाह
इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥२१४॥
इह लोके, अहिंसादयो धर्माः, पञ्च सङ्ख्यया, सुप्रसिद्धाः सर्वतन्त्रसाधारणत्वेन, यमा= उपरमाः सतां मुनीनाम् इति । किम्पर्यन्ता इत्याह== अपरिग्रहपर्यन्ताः “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः " (२-३० पा.) इति वचनात् । तथेच्छादिचतुर्विधाः=प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥ २१४॥
एतेषां विशेषलक्षणमाह
८०
योगदृष्टिसंग्रह
तद्ववत्कथाप्रीतियुता तथा विपरिणामिनी । यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ २२५॥
तद्वत्कथाप्रीतियुता=यमवत्कथाप्रीतियुता । तथाऽविपरिणामिनी तद्भावस्थिरत्वेन । यमेषु=उक्तलक्षणेषु । इच्छा अवसेयेह-यमचक्रे । इयं च प्रथमो यम एव तु, अनन्तरोदितलक्षणेच्छेव इच्छायम इति कृत्वा ॥ २१५ ॥
तथा
सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥२१६॥
सर्वत्र सामान्येन, शमसारं = तूपशमसारमेव यत्क्रियाविशिष्टं, यमपालनं प्रवृत्तिरिह विज्ञेया यमेषु द्वितीयो यम एव तत् प्रवृत्तियम इत्यर्थः ॥ २१६ ॥
विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥ २१७॥
विपक्षचिन्तारहितम् = अतिचारादिचिन्तारहितमित्यर्थः । यमपालनमेव यद्=विशिष्टक्षयोपशमवृत्त्या । तत्स्थैर्यमिह विज्ञेयं यमेषु । एतच्च तृतीयो यम एव हि स्थिरयम इति योऽर्थः ॥ २९७ ॥
परार्थसाधकं त्वेतत्सिद्धिः शुद्धाऽन्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥ २९८ ॥
परार्थसाधकं त्वेतद्=यमपालनं सिद्धिः अभिधीयते । एतच्च शुद्धान्तरात्मनो नान्यस्य । अचिन्त्यशक्तियोगेन तत्सन्निधौ वैरत्यागात् । इत एव=चतुर्थो यम एव तु = सिद्धियम इति भावः ॥२१८॥
अवञ्चकस्वरूपमाह