________________
योगदृष्टिसमुच्चयः
७७ एकान्तलक्षणः तथैव हि यथा दृष्टान्ते । किमिवेत्याह-मुक्तोऽपि हन्त ! नो मुक्तो मुख्यवृत्त्या त्रयाणामपि तत्प्रवृत्तिनिमित्ताऽभावात् इति तद्विदः मुक्तविद इत्थमभिधतीति ॥२०५॥
कथं तर्हि मुक्तव्यवस्थेत्याह
७८
योगदृष्टिसंग्रह तथाविधकुलादियोग्यपेक्षया, लेशतो न विरुध्यते मनागतोऽपि योगपक्षपातादिभावात् ॥२०८॥
तदत्र
क्षीणव्याधिर्यथा लोके व्याधिमुक्त इति स्थितः । भवरोग्येव तु तथा मुक्तस्तन्त्रेषु तत्क्षयात् ॥२०६॥
क्षीणव्याधिः पुरुषः यथा लोकेऽविगानेन व्याधिमुक्त इति तत्तद्भावेन, स्थितो न स्थापनीयः । भवरोग्येव-न मुख्यतद्भावेन, तथा मुक्तः भवव्याधिमुक्तः, तन्त्रेषु स्थितः । तत्क्षयादिति भवरोगक्षयादित्यर्थः ॥२०६।।
एव प्रकृतमभिधाय सर्वोपसंहारमाह
अनेकयोगशास्त्रेभ्यः सङ्केपेण समुद्भूतः । दृष्टिभेदेन योगोऽयमात्मानुस्मृतये परः ॥२०७॥
अनेकयोगशास्त्रेभ्यः पातञ्जलादिभ्यः, सझेपेण समासेन समुद्धृतः =तेभ्यः पृथक्कृतः नवनीतमिव क्षीरादिति । केन क इत्याह दृष्टिभेदेन उक्तलक्षणेन, योगोऽयं अधिकृत एव । किमर्थमित्याह-आत्मानुस्मृतये आत्मानुऽस्मृत्यर्थं पर:= प्रधानो योग इति ॥२०७॥
प्रयोजनाऽन्तरमप्याहकुलादियोगभेदेन चतुर्धा योगिनो यतः । अतः परोपकारोऽपि लेशतो न विरुध्यते ॥२०८॥
कुलप्रवृत्तचक्रा ये त एवास्याधिकारिणः । योगिनो न तु सर्वेऽपि तथाऽसिद्धयादिभावतः ॥२०९॥
कुलप्रवृत्तचक्रा ये=कुलयोगिनः प्रवृत्तचक्राश्च य इत्यर्थः । एते चास्ययोगशास्त्रस्य, अधिकारिणो अर्हाः, योगिनो न तु सर्वेऽपि सामान्येन । कुत इत्याह तथा तेन प्रकारेण, असिद्ध्यादिभावत: गोत्रयोगिनामसिद्धिभावात्, आदिशब्दात्तु निष्पन्नयोगिनां तु सिद्धिभावादिति ॥२०९॥
एतद्विशेषलक्षणमाहये योगिनां कुले जातास्तद्धर्मानुगताश्च ये । कुलयोगिन उच्यन्ते गोत्रवन्तोऽपि नापरे ॥२१०॥
ये योगिनां कुले जाता जन्मनैव तद्धर्मानुगताश्च योगिधर्मानुगताश्च, ये प्रकृत्याऽन्येऽपि । कुलयोगिन उच्यन्ते इति गम्यते द्रव्यतो भावतश्च, गोत्रवन्तोऽपि सामान्येन भूमिभव्या अपि, नापरे कुलयोगिन इति ॥२१०॥
एतद्विशेषलक्षणमधिकृत्याहसर्वत्राऽद्वेषिणश्चैते गुरुदेवद्विजप्रियाः । दयालवो विनीताश्च बोधवन्तो यतेन्द्रियाः ॥२११॥
कुलादियोगभेदेन गोत्रकुलप्रवृत्तचक्रनिष्पन्नयोगलक्षणेन, चतुर्धा= चतुष्प्रकाराः, योगिनो यतः सामान्येन । अतः किमित्याह-परोपकारोऽपि
सर्वत्राऽद्वेषिणश्चैते तथाऽऽग्रहाभावेन, तथा गुरुदेवद्विजप्रिया धर्मप्रभावात् । तता दयालवः प्रकृत्या क्लिष्टपापाऽभावेन, विनीताश्च कुशलाऽनुबन्धिभव्यतया । तथा बोधवन्तो ग्रन्थिभेदेन, यतेन्द्रियाश्चारित्रभावेन ॥२११।।