________________
योगदृष्टिसमुच्चयः
तदभावे च संसारी मुक्तश्चेति निरर्थकम् । तत्स्वभावोपमर्दोऽस्य नीत्या तात्त्विक इष्यताम् ॥१९९॥
योगदृष्टिसंग्रह अवस्था तत्त्वत:=परमार्थेन, नो चेत् पूर्वाऽपरभावेन । तदाशङ्क्याह-ननु तत्प्रत्ययः अवस्थाप्रत्ययः कथं ? निबन्धनाऽभावेन । स्यादे तत् तद् भ्रान्तोऽयम् अवस्थाप्रत्ययः तत् किमनेन ? इत्येतदाशङ्क्याहमानमत्र=भ्रान्ततायां न विद्यते ॥२०२॥
तदभावे च अवस्थाद्वयाऽभावे च, संसारी तिर्यगादिभाववान्, मुक्तो भवप्रपञ्चोपरमादित्येतत्, निरर्थकं-शब्दमात्रमेव च अर्थाऽयोगादिति । तत् तथा, स्वभावोपमर्दः तदन्तरेण तदनन्तराऽपनयनलक्षणः । अस्य आत्मनः । नीत्या न्यायेन । किमित्याह-तात्त्विक इष्यतां पारमार्थिकोऽभ्युपगम्यतामिति ॥१९९॥
योगिज्ञानं तु मानं चेत्तदवस्थान्तरं तु तत् । ततः किं भ्रान्तमेतत्स्यादन्यथा सिद्धसाध्यता ॥२०३॥
दिदृक्षाद्यात्मभूतं तन्मुख्यमस्या निवर्तते । प्रधानादिनतेर्हेतुस्तदभावान्न तन्नतिः ॥२००॥
दिदृक्षा अविद्यामलभवाधिकारादि, आत्मभूतं सहजं वस्तु सत् । तत तस्मात्, मुख्यम् अनुपचरितमेव, अस्य आत्मना, निवर्तत इति । किम्भूतं तदित्याह-प्रधानादिनतेः प्रधाननयादिपरिणतेः, हेतः कारणम् । तदभावाद् दिदृक्षाद्यभावात्, न तन्नतिः=न प्रधानादि परिणतिर्मुक्तात्मन इति ॥२००॥
योगिज्ञानं तु-योगिज्ञानमेव, प्रमाणं चेद् अत्र एतदाशङ्क्याहतदवस्थान्तरं तु योग्यवस्थान्तरमेव, तत् योगिज्ञानम् । ततः किमित्येतदाशङ्क्याह-भ्रान्तमेतत्स्यात् योगिज्ञानं, अन्यथा अभ्रान्तत्वेऽस्य । किमित्याहसिद्धसाध्यता अवस्थाभेदोपपत्तेरिति ॥२०३॥
उक्तमानुषङ्गिकं प्रकृतं प्रस्तुमः । तच्च सिद्धस्वरूपव्याधिमुक्तः पुमान् लोके इत्याधुपन्यासात् । तत्र
व्याधितस्तदभावो वा तदन्यो वा यथैव हि । व्याधिमुक्तो न सन्नीत्या कदाचिदुपपद्यते ॥२०४॥
व्याधितः सञ्जातव्याधिरेव, तदभावो वा तदन्यो वा व्याधितादन्यो वा तत्पुत्रादिः, यथैव हि व्याधिमुक्तो न त्रयाणामेकोऽपि, सन्नीत्या सन्न्यायेन, कदाचिदुपपद्यत इति दृष्टान्तः ॥२०४॥
अन्यथा स्यादियं नित्यमेषा च भव उच्यते । एवं च भवनित्यत्वे कथं मुक्तस्य सम्भवः ? ॥२०१॥
दान्तिकयोजनमाह
इत्थं चैतदङ्गीकर्तव्यम् अन्यथा एवमनभ्युपगम्यमाने, स्यादिय= प्रधानादिनतिः, नित्यं सदैव । ततः किमित्याह-एषा चप्रधानादिनतिः, भव उच्यते संसारोऽभिधीयते, एतन्नतौ तदात्मकमहदादिभावात् । एवं च= उक्तनीत्या, भवनित्यत्वे सति, कथं मुक्तस्य सम्भवः ? नैवेत्यर्थः ॥२०१॥
अवस्था तत्त्वतो नो चेन्ननु तत्प्रत्ययः कथम् । भ्रान्तोऽयं किमनेनेति मानमत्र न विद्यते ॥२०२॥
संसारी तदभावो वा तदन्यो वा तथैव हि । मुक्तोऽपि हन्त ! नो मुक्तो मुख्यवृत्त्येति तद्विदः ॥२०५॥ संसारी=पुरुषः । तदभावो वा=पुरुषाऽभावमात्रमेव । तदन्यो