Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 46
________________ योगदृष्टिसमुच्चयः प्रवृत्तचक्रास्तु पुनर्यमद्वयसमाश्रयाः । शेषद्वयार्थिनोऽत्यन्तं शुश्रूषादिगुणान्विताः ॥ २१२ ॥ प्रवृत्तचक्रास्तु पुनः, किंविशिष्टा भवन्तीत्याह यमद्वयसमाश्रयाः इच्छायमप्रवृत्तियमाश्रया इत्यर्थः, शेषद्वयार्थिनः = स्थिरयमसिद्धियमद्वयार्थिनः इत्युक्तं भवति । अत्यन्तं सदुपायप्रवृत्त्येति । अत एव शुश्रूषादिगुणान्विताः= शुश्रूषा श्रवणग्रहणधारणाविज्ञानेहापोहतत्त्वाभिनिवेशगुणयुक्ताः ॥ २१२ ॥ तथा ७९ आद्यावञ्चकयोगाऽऽप्त्या तदन्यद्वयलाभिनः । एतेऽधिकारिणो योगप्रयोगस्येति तद्विदः ॥ २१३॥ आद्यावञ्चकयोगाप्त्या हेतुभूतया तदन्यद्वयलाभिनः क्रियावञ्चकफलावञ्चकद्वयलाभिनः, तदवन्ध्यभव्यतयैवम्भूताः । किमित्याह-अधिकारिणः । कस्येत्याह-योगप्रयोगस्य = अधिकृतस्य, इति = एवं तद्विदो= योगविदः । अभिदधति इति शेषः ॥ २१३|| उपन्यस्तयमादिस्वरूपमाह इहाऽहिंसादयः पञ्च सुप्रसिद्धा यमाः सताम् । अपरिग्रहपर्यन्तास्तथेच्छादिचतुर्विधाः ॥२१४॥ इह लोके, अहिंसादयो धर्माः, पञ्च सङ्ख्यया, सुप्रसिद्धाः सर्वतन्त्रसाधारणत्वेन, यमा= उपरमाः सतां मुनीनाम् इति । किम्पर्यन्ता इत्याह== अपरिग्रहपर्यन्ताः “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः " (२-३० पा.) इति वचनात् । तथेच्छादिचतुर्विधाः=प्रत्येकमिच्छायमाः प्रवृत्तियमाः स्थिरयमाः सिद्धियमा इति ॥ २१४॥ एतेषां विशेषलक्षणमाह ८० योगदृष्टिसंग्रह तद्ववत्कथाप्रीतियुता तथा विपरिणामिनी । यमेष्विच्छावसेयेह प्रथमो यम एव तु ॥ २२५॥ तद्वत्कथाप्रीतियुता=यमवत्कथाप्रीतियुता । तथाऽविपरिणामिनी तद्भावस्थिरत्वेन । यमेषु=उक्तलक्षणेषु । इच्छा अवसेयेह-यमचक्रे । इयं च प्रथमो यम एव तु, अनन्तरोदितलक्षणेच्छेव इच्छायम इति कृत्वा ॥ २१५ ॥ तथा सर्वत्र शमसारं तु यमपालनमेव यत् । प्रवृत्तिरिह विज्ञेया द्वितीयो यम एव तत् ॥२१६॥ सर्वत्र सामान्येन, शमसारं = तूपशमसारमेव यत्क्रियाविशिष्टं, यमपालनं प्रवृत्तिरिह विज्ञेया यमेषु द्वितीयो यम एव तत् प्रवृत्तियम इत्यर्थः ॥ २१६ ॥ विपक्षचिन्तारहितं यमपालनमेव यत् । तत्स्थैर्यमिह विज्ञेयं तृतीयो यम एव हि ॥ २१७॥ विपक्षचिन्तारहितम् = अतिचारादिचिन्तारहितमित्यर्थः । यमपालनमेव यद्=विशिष्टक्षयोपशमवृत्त्या । तत्स्थैर्यमिह विज्ञेयं यमेषु । एतच्च तृतीयो यम एव हि स्थिरयम इति योऽर्थः ॥ २९७ ॥ परार्थसाधकं त्वेतत्सिद्धिः शुद्धाऽन्तरात्मनः । अचिन्त्यशक्तियोगेन चतुर्थो यम एव तु ॥ २९८ ॥ परार्थसाधकं त्वेतद्=यमपालनं सिद्धिः अभिधीयते । एतच्च शुद्धान्तरात्मनो नान्यस्य । अचिन्त्यशक्तियोगेन तत्सन्निधौ वैरत्यागात् । इत एव=चतुर्थो यम एव तु = सिद्धियम इति भावः ॥२१८॥ अवञ्चकस्वरूपमाह

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131