________________
योगदृष्टिसमुच्चयः
टनादिलक्षणा अन्या=भवति । कुत इत्याह = फलभेदतः प्राक् साम्परायिककर्मक्षयः फलम्, इदानीं तु भवोपग्राहिकर्मक्षय इति ॥१८०॥
तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् । तथाऽयं धर्मसन्यासविनियोगान्महामुनिः ॥ १८९ ॥
तन्नियोगाद्=रत्ननियोगात्, महात्मेह-लोके, कृतकृत्यो यथा भवेत् कश्चिद्रत्नवणिक् । तथाऽयम् = अधिकृतयोगो, धर्मसन्यासविनियोगात् सकाशात्, महामुनिः कृतकृत्यो भवतीति ॥ १८९ ॥
तथा (तत्र) -
द्वितीयाऽपूर्वकरणे मुख्योऽयममुपजायते ।
केवल श्रीस्ततश्चास्य निःसपत्ना सदोदया ॥ १८२ ॥
६९
द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि मुख्योऽयं धर्मसन्यासः, उपजायत उपचरितस्तु प्रमत्तसंयतादारभ्य केवल श्रीस्ततश्च= धर्मसन्यासविनियोगात्, अस्य = योगिनो, निःसपत्ना केवल श्रीः सदोदया प्रतिपाताऽभावेन ॥ १८२ ॥ सिंहावलोकितनीत्याऽधिकृतवस्तुनिर्धारणायाह
स्थितः शीतांशुवज्जीवः प्रकृत्या भावशुद्धया । चन्द्रिकावच्च विज्ञानं तदावरणमभ्रवत् ॥१८३॥
स्थितो न स्थापनीयः, शीतांशुवत् = चन्द्रवत्, जीव = आत्मा, प्रकृत्याऽऽत्मीयया, भावशुद्धया=तत्त्वशुद्ध्येत्यर्थः । तथा वा चन्द्रिकावच्च=ज्योत्स्नावच्च, विज्ञानं केवलाद्युपमामात्रमेतत्, तदावरणं=ज्ञानाssवरणम्, अभ्रवत् = मेघपटलवदित्यर्थः ॥१८३॥
प्रकृतयोजनामाह
७०
योगदृष्टिसंग्रह
घातिकर्माभ्रकल्पं तदुक्तयोगाऽनिलाऽऽहतेः । यदाऽपैति तदा श्रीमान् जायते ज्ञानकेवली ॥ १८४ ॥
घातिकर्म=ज्ञानावरणीयादि । तथा (हि) ज्ञानावरणीयं, दर्शनावरणीयं, मोहनीयम्, अन्तरायं चेति । एतद्-अभ्रकल्पं वर्तते तद् घातिकर्म, उक्तयोगाऽनिलाऽहतेः=अनन्तरोदितयोगवायुघातादित्यर्थः । यदाऽपैति श्रेणिपरिसमाप्तौ, तदा श्रीमान्=असौ मुख्यविक्रमयोगेन जायते ज्ञानकेवली - सर्वज्ञ इत्यर्थः
॥ १८४ ॥
अत एवाह
क्षीणदोषोऽथ सर्वज्ञः सर्वलब्धिफलाऽन्वितः । परं परार्थं सम्पाद्य ततो योगान्तमश्नुते ॥ १८५ ॥
क्षीणदोषः=सकलरागादिपरिक्षयेण । अथ तदैव । सर्वज्ञो निरावरणज्ञानभावेन सर्वज्ञ इत्यर्थः । सर्वलब्धिफलान्वितः सर्वोत्सुक्यनिवृत्त्या । परं परार्थं सम्पाद्य यथाभव्यं सम्यक्त्वादिलक्षणम् । ततो योगान्तमश्नुते= योगपर्यन्तमाप्नोति ॥१८५॥
तत्र द्रागेव भगवानयोगाद्योगसत्तमात् । भवव्याधिक्षयं कृत्वा निर्वाणं लभते परम् ॥१८६॥
तत्र = योगान्ते शैलेष्यवस्थायां द्रागेव शीघ्रमेव, हुस्वपञ्चाक्षरोगिरणमात्रेण कालेन, भगवान् = असौ, अयोगाद् = व्यापारात्, योगसत्तमाद्=योगप्रधानात् शैलेषीयोगादित्यर्थः । किमित्याह - भवव्याधिक्षयं कृत्वा सर्वप्रकारेण निर्वाणं लभते परं भावनिर्वाणमित्यर्थः ॥ १८६॥
तत्रायं कीदृश इत्याह