________________
६८
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः सुखम् अपरायत्तत्वात्कर्मवियोगमात्रजत्वादिति ॥१७३॥
व्यवस्थितः सन् । एतत्पदावहैषैव दृष्टिः, तत्तत्रैतद्विदां मता=इति ॥१७७॥
उक्ता सप्तमी दृष्टिः । अधुनानन्तरोच्यते ।
ध्यानं च निर्मले बोधे सदैव हि महात्मनाम् । क्षीणप्रायमलं हेम सदा कल्याणमेव हि ॥१७४॥
तदाह
ध्यानं च निर्मले बोधे स्पष्टक्षयोपशमसमुत्थे सति । किमित्याहसदैव हि महात्मनां मुनीनाम् । एतदेव प्रतिवस्तूपमयाऽऽह-क्षीणप्रायमलं हेम स्वर्णं सदा कल्याणमेव हि तथावस्थोपपत्तेः ॥१७४॥
समाधिनिष्ठा तु परा तदासङ्गविवर्जिता । सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च ॥१७८॥
समाधिनिष्ठा तु परा=अष्टमी दृष्टिः, समाधिस्तु ध्यानविशेषः, फलमित्यन्ये । यथोक्तं "देशबन्धश्चित्तस्य धारणा" "तत्र प्रत्ययैकतानता ध्यानं" "तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः" इति ॥ तदासङ्गविवर्जिता समाध्याऽसङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन । तदुत्तीर्णाशयेति चाऽसच्चित्ताभावेन ॥१७८।।
सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानससज्ञितम् । महापथप्रयाणं यदनागामिपदावहम् ॥१७५॥
सत्प्रवृत्तिपदं चेह-तत्त्वमार्गे । किमित्याह असङ्गानुष्ठानससञ्जितं वर्तते तथास्वरसप्रवृत्तेः । महापथप्रयाणं यद् असङ्गानुष्ठानम् । अनागामिपदावह नित्यपदप्रापकमित्यर्थः ॥१७५॥
असङ्गानुष्ठाननामान्याह
प्रशान्तवाहितासंझं विसभागपरिक्षयः । शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः ॥१७६॥
प्रशान्तवाहितासङ्गं साङ्ख्यानां, विसभागपरिक्षयो बौद्धानां, शिववर्त्म शैवानां, ध्रुवाध्वा महाव्रतिकानाम् इति एवं, योगिभिर्गीयते ह्यदो =असङ्गानुष्ठानमिति ॥१७५॥
निराचारपदो ह्यस्यामतिचारविवर्जितः । आरूढारोहणाभाव-गतिव(म)त्त्वस्य चेष्टितम् ॥१७९॥
निराचारपदो हि-एव अस्यां दृष्टौ, योगी भवति प्रतिक्रमणाद्यभावात् । अतिचारविवर्जितः तन्निबन्धनाऽभावेन । आरूढारोहणाभावगतिव(मत्त्वस्य योगिनश्चेष्टितं भवति, आचारजेयकर्माऽभावात्, निराचारपद इत्यर्थः ॥१७९॥
कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाहरत्नादिशिक्षादृग्भ्योऽन्या यथा दृक्तन्नियोजने । तथाचारक्रियाऽप्यस्य सैवाऽन्या फलभेदतः ॥१८०॥
एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः । एतत्पदावहैषैव तत्तत्रैतद्विदां मता ॥१७७॥
रत्नादिशिक्षादृग्भ्यः सकाशात्, अन्या भिन्नैव, यथा दृक्तन्नियोजने रत्नादिनियोजने शिक्षितस्य सतः । तथाचारक्रियाप्यस्य-योगिनः, सैव भिक्षा
एतद् असङ्गानुष्ठानं, प्रसाधयत्याशु शीघ्र, यद्योग्यस्यां दृष्टौ,