________________
योगदृष्टिसमुच्चयः
क्षिप्तान्, असङ्गः सन् प्रयात्येव परं पदं तथाऽनभिष्वङ्गतया परवशाभावात्
।।१६६ ॥
भोगतत्त्वस्य तु पुनर्न भवोदधिलङ्घनम् । मायोदकदृढावेशस्तेन यातीह कः पथा ? ॥१६७॥
भोगतत्त्वस्य तु=भोगपरमार्थस्य पुनः न भवोदधिलङ्घनं तथाबुद्धेस्तदुपायेऽप्रवृत्तेः । आह च- मायोदकदृढावेशः तथाविपर्यासात्, तेन यातीह कः पथा यत्र मायायामुदकबुद्धिः ॥१६७॥
स तत्रैव भवोद्विग्नो यथा तिष्ठत्यसंशयम् । मोक्षमार्गेऽपि हि तथा भोगजम्बालमोहितः ॥ १६८॥
६५
स=मायायामुदकदृढावेशः, तत्रैव = पथि, भवोद्विग्नः सन् । यथा इत्युदाहरणोपन्यासार्थः । तिष्ठत्यसंशयं = तिष्ठत्येव जलबुद्धिसमावेशात् । मोक्षमार्गेऽपि हि = ज्ञानादिलक्षणे, तथा तिष्ठत्यसंशयं, भोगजम्बालमोहितः = भोगनिबन्धनदेहादिप्रपञ्चमोहित इत्यर्थः ॥ १६८ ॥
मीमांसाभावतो नित्यं न मोहोऽस्यां यतो भवेत् । अतस्तत्त्वसमावेशात्सदैव हि हितोदयः ॥१६९॥
मीमांसाभावतः=सद्विचारभावेन नित्यं = सर्वकालं, न मोहोऽस्यां दृष्टौ यतो भवेत् । अतस्तत्त्वसमावेशात् कारणात्, सदैव हितोदयोऽस्यां दृष्टाविति ॥ १६९॥
प्रतिपादिता षष्ठी दृष्टिः ।
साम्प्रतं सप्तम्युच्यते
६६
योगदृष्टिसंग्रह
ध्यानप्रिया प्रभा प्रायो नास्यां रुगत एव हि । तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता ॥ १७० ॥
ध्यानप्रिया = ध्यानवल्लभा विशेषोद्वेगात्, प्रभा दृष्टिः प्रायः = बाहुल्येन नास्यां=दृष्टौ रूग्=वेदना अत एव हि तथा तत्त्वप्रतिपत्तियुता विशेषेण शमान्विता एवं सत्प्रवृत्तिपदावहेति पिण्डार्थः ॥ १७० ॥
ध्यानजं सुखमस्यां तु जितमन्मथसाधनम् । विवेकबलनिर्जातं शमसारं सदैव हि ॥ १७१ ॥
ध्यानजं सुखमस्यां नु = अधिकृतदृष्टावेव । किंविशिष्टमित्याह-जितमन्मथसाधनं व्युदस्तशब्दादिविषयम् । एतदेव विशेष्यते विवेकबलनिर्जातं=ज्ञानसामर्थ्योत्पन्नम् । अत एव शमासारं सदैव हि विवेकस्य शमफलत्वादिति ॥ १७१ ॥
किञ्च
सर्वं परवशं दुःखं सर्वमात्मवशं सुखम् । एतदुक्तं समासेन लक्षणं सुखदुःखयोः ॥ १७२ ॥
सर्वं परवशं दुःखं तल्लक्षणयोगात् । सर्वमात्मवशं सुखम् अत एव हेतोः । एतदुक्तं मुनिना, समासेन सङ्क्षेपेण, लक्षणं = स्वरूपं, सुखदुःखयोः इति ॥ १७२ ॥
पुण्यापेक्षमपि ह्येवं सुखं परवशं स्थितम् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगतः ॥१७३॥
पुण्यापेक्षमपि ह्येवम्=उक्तनीत्या, सुखं परवशं स्थितं पुण्यस्य परत्वात् । ततश्च दुःखमेवैतत्तल्लक्षणनियोगात्, तदित्थं, ध्यानजं तात्त्विकं