________________
योगदृष्टिसमुच्चयः
किमित्याह-स्कन्धभाराऽपनुत्तये=स्कन्धभाराऽपनुत्त्यर्थं स्कन्धाऽन्तरसमारोपः वर्तते । कुत इत्याह- तत्संस्कारविधानतः = तथाकर्मबन्धेनाऽनिष्टभोगसंस्कारविधानात्तत्त्वतस्तदिच्छाऽनिवृत्तेरिति । उक्ता पञ्चमी दृष्टिः ।
सत्यामस्यामपरैरपि योगाचार्यैरलौल्यादयो गुणाः प्रोच्यन्ते । यथोक्तम्
अलौल्यमारोग्यमनिष्ठुरत्वं गन्धः शुभो मूत्रपुरीषमल्पम् । कान्तिः प्रसादः स्वरसौम्यता च योगप्रवृत्तेः प्रथमं हि चिह्नम् ॥ मैत्र्यादियुक्तं विषयेष्वचेतः प्रभाववद्धैर्यसमन्वितं च । द्वन्द्वैरघृष्यत्वमभीष्टलाभः जनप्रियत्वं च तथा परं स्यात् ॥
६३
दोषव्यपायः परमा च तृप्तिरौचित्ययोगः समता च गुर्वी । वैरादिनाशोऽथ ऋतम्भरा धीर्निष्यन्नयोगस्य तु चिह्नमेतत् ॥ इत्यादि । इहाप्येतदकृत्रिमं गुणजातम् । अत एवारभ्य विज्ञेयम् ॥१६१ ॥ तथा च षष्ठीं दृष्टिमभिधातुमाह
कान्तायामेतदन्येषां प्रीतये धारणा परा । अतोऽत्र नान्यमुन्नित्यं मीमांसाऽस्ति हितोदया ॥ १६२॥
कान्तायां दृष्टौ एतद् = अनन्तरोदितं नित्यदर्शनादि । अन्येषां प्रीतये भवति न तु द्वेषाय । तथा धारणा परा=प्रधानचित्तस्य देशबन्धलक्षणा । यथोक्तम् "देशबन्धश्चित्तस्य धारणा"। अतो धारणातः । अत्र दृष्टौ नान्यमुद्= नान्यत्र हर्ष:, तदा तत्तत्प्रतिभासायोगात् । तथा नित्यं सर्वकालं, मीमांसाऽस्ति सद्विचारात्मिका । अत एवाह-हितोदया सम्यग्ज्ञानफलत्वेन ॥ १६२ ॥
अमुमेवार्थं स्पष्टयन्नाह -
अस्यां तु धर्ममाहात्म्यात्समाचारविशुद्धितः । प्रियो भवति भूतानां धर्मैकाग्रमनास्तथा ॥ १६३॥
योगदृष्टिसंग्रह
अस्यामेव दृष्टौ कान्तायां नियोगेन धर्ममाहात्म्यात् कारणात् समाचारविशुद्धितो हेतोः । किमित्याह-प्रियो भवति भूतानां प्राणिनां, धर्मैकाग्रमनास्तथा भवतीति ॥ १६३ ॥
एतदेवाह
६४
श्रुतधर्मे मनोनित्यं कायस्त्वस्याऽन्यचेष्टिते । अतस्त्वाक्षेपकज्ञानान्न भोगा भवहेतवः ॥ १६४॥
श्रुतधर्मे= आगमे, मनो नित्यं तद्भावनोपपत्तेः, कायस्तु = काय एव । अस्य = अधिकृतदृष्टिमतो, अन्यचेष्टिते सामान्ये अतस्तु = अत एव कारणात् । आक्षेपकज्ञानात्= सम्यगाक्षेपकज्ञानेन हेतुभूतेन, भोगा - इन्द्रियार्थ सम्बन्धाः । भवहेतवः = संसारहेतवो, न इति ॥१६४॥
अमुमेवार्थं दृष्टान्तमधिकृत्याह
मायाम्भस्तत्त्वतः पश्यन्ननुद्विग्नस्ततो द्रुतम् । तन्मध्येन प्रयात्येव यथा व्याघातवर्जितः ॥ १६५ ॥
मायाम्भस्तत्त्वतः पश्यन् मायाम्भस्त्वेनैव, अनुद्विग्नस्ततो=मायाम्भसो द्रुतं=शीघ्रं, तन्मध्येन मायाम्भोमध्येन, प्रयात्येव न न प्रयाति । यथा इत्युदाहरणोपन्यासार्थः । व्याघातवर्जितो मायाम्भसस्तत्त्वेन व्याघाताऽसमर्थत्वादिति ॥१६५॥
भोगान्स्वरूपतः पश्यंस्तथा मायोदकोपमान् । भुञ्जानोऽपि ह्यसङ्गः सन् प्रयात्येव परं पदम् ॥१६६॥
भोगान्=इन्द्रियार्थसम्बन्धान्, स्वरूपतः पश्यन् = समारोपमन्तरेण, तथा=तेनैव प्रकारेण, मायोदकोपमान् = असारान् भुञ्जानोऽपि हि कर्मा