________________
योगदृष्टिसमुच्चयः
बालधूलीगृहक्रीडातुल्याऽस्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाऽखिलैव हि ॥ १५५ ॥
बालधूलीगृहक्रीडातुल्या प्रकृत्यसुन्दरत्वास्थिरत्वाभ्याम्, अस्यां= स्थिरायां दृष्टौ, भाति धीमतां पुंसां, तमोग्रन्थिविभेदेन हेतुना, भवचेष्टाऽखिलैव हि चक्रवर्त्यादिचेष्टरूपाऽपि प्रकृत्यसुन्दरत्वादस्थिरत्वाच्च ॥ १५५ ॥
६१
मायामरीचिगन्धर्वनगरस्वप्नसन्निभान् ।
बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः ॥ १५६ ॥
मायामरीचयो=मृगतृष्णिका, गन्धर्वनगरं हरिश्चन्द्रपुरादि, स्वप्नः = प्रतीत एव एतत्सन्निभान् = एतदाकारान्, बाह्यान् = देहगृहादीन्, पश्यति तत्त्वेन=परमार्थेन, भावान् = पदार्थान् । कुत इत्याह- श्रुतविवेकतः = सम्यक्परिणतेन श्रुतज्ञानेन ॥१५६॥
अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् ।
यत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ॥ १५७॥
अबाह्यम्=अन्तरं, केवलम् = एकं, ज्योतिः = ज्ञानं, अनाबाधम्= अमूर्ततया पीडारहितम् अनामयम् = अरोगम् । अत एव यदत्र = लोके, तत्परं तत्त्वं वर्तते सदा तथाभावात् । शेषः पुनरुपप्लवः तथा स्वरूपेण भावादिति ।।१५७।।
एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयलवन्तश्च तत्त्वतः ॥ १५८ ॥
एवम्=उक्तनीत्या, विवेकिन= एते, धीरा = अचपलाः, प्रत्याहारपरा= उक्तलक्षणप्रत्याहारप्रधानाः । तथा तेन प्रकारेण । धर्मबाधापरित्याग
६२
यत्नवन्तश्च तथाऽन्तः परिशुद्धेः, तत्त्वतः = परमार्थेन ॥ १५८ ॥ एते हि भिन्नग्रन्थित्वादुत्तमश्रुतप्रधाना इत्येवमालोचयन्ति
योगदृष्टिसंग्रह
न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः ॥ १५९ ॥
न हि नैव, अलक्ष्मीसखी लक्ष्मी:, तथोभयपरिभोगेन, यथानन्दाय = आनन्दार्थं, धीमतां बुद्धिमतां, तथा पापसखा लोके तदविनाभावेन, देहिनां भोगविस्तरो नानन्दाय, "नानुपहत्य भूतानि भोगः सन् भवति भूतोपघाताच्च पापमिति भावना" ॥१५९॥
धर्मभोगः सुन्दर इत्यप्याशङ्काऽपोहायाऽऽह
धर्मादपि भवन् भोगः प्रायो ऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥ १६० ॥
धर्मादपि भवन् भोगो देवलोकाद्रौ, प्रायो= बाहुल्येन, अनर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं तस्य प्रमादबीजत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह- चन्दनादपि सम्भूतः तथा शैत्यप्रकृतेः । किमित्याह - दहत्येव हुताशनः तथास्वभावत्वात् । प्राय एतदेव न दहत्यपि कश्चि (क्वचि) त्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः । सकललोक (प्र) सिद्धमेतदिति ॥ १६०॥
भोगात्तदिच्छाविरतिः स्कन्धभाराऽपनुत्तये । स्कन्धाऽन्तरसमारोपस्तत्संस्कारविधानतः ॥ १६१॥
भोगात् सकाशात्, तदिच्छाविरतिः = भोगेच्छाविरतिस्तात्कालिकी ।