________________
योगदृष्टिसमुच्चयः
कुत इत्याह- मुक्तौ धर्मा अपि प्रायस्त्यक्तव्याः प्रायोग्रहणं क्षायिकधर्मव्यवच्छेदार्थम् । किमनेन ग्रहेण तत् = न किञ्चिदित्यर्थः ॥ १४८ ॥
यत एवम्
तदत्र महतां वर्त्म समाश्रित्य विचक्षणैः । वर्तितव्यं यथान्यायं तदतिक्रमवर्जितैः ॥ १४९ ॥
तदत्र=व्यतिकरे महतां वर्त्म समाश्रित्य = अङ्गीकृत्य, विचक्षणैः= पण्डितैः, वर्तितव्यं यथान्यायं = न्यायसदृशं तदतिक्रमवर्जितै: = महद्वर्त्माऽतिचाररहितैः ॥१४९॥
एतदेवाह
परपीडेह सूक्ष्मापि वर्जनीया प्रयत्नतः । तद्वत्तदुपकारेऽपि यतितव्यं सदैव हि ॥ १५० ॥
५९
परपीडा=परबाधा, इह=लोके, सूक्ष्मापि आस्तां महतीति । किमि - त्याह-वर्जनीया=परित्यक्तव्या, प्रयत्नतः = सूक्ष्माभोगेन । तद्वत्प्रयत्नत एव,, तदुपकारेऽपि=परोपकारेऽपि यतितव्यम्, अनुष्ठानद्वारेण, सदैव हीति ॥ १५०॥
तथा
वो देवता विप्रा यतयश्च तपोधनाः । पूजनीया महात्मानः सुप्रयत्नेन चेतसा ॥ १५१ ॥
गुरुवो = मातापितृप्रमुखाः, देवता सामान्येनैव विप्राद्विजाः, यतयश्च= प्रव्रजिताश्च तपोधनाः = तद्वन्तः, पूजनीया महात्मानः सर्व एवैते यथार्हम् । कथमित्याह-सुप्रयलेन चेतसा = आज्ञाप्रधानेनेत्यर्थः ॥१५१॥
किञ्च
६०
योगदृष्टिसंग्रह
पापवत्स्वपि चात्यन्तं स्वकर्मनिहतेष्वलम् ।
अनुकम्पैव सत्त्वेषु न्याय्या धर्मोऽयमुत्तमः ॥१५२॥
पापवत्स्वपि चात्यन्तं, लुब्धकादिषु, स्वकर्मनिहतेष्वलम्=अत्यर्थम्, अनुकम्पैव सत्त्वेषु न्याय्या न मत्सरो, धर्मोऽयमुत्तमः कारणे कार्योपचारादिति ॥१५२॥
उपसंहरन्नाह
कृतमत्र प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना । तत्पुनः पञ्चमी तावद्योगदृष्टिर्महोदया ॥१५३॥
कृतं=पर्याप्तं, अत्र=व्यतिकरे, प्रसङ्गेन प्रकृतं प्रस्तुमोऽधुना = साम्प्रतं, तत्पुनः प्रकृतं पञ्चमी तावद्योगदृष्टिः स्थिराख्या । किंविशिष्टेत्याह-महोदया = निर्वाणपरमफलेत्यर्थः ॥१५३॥
एवं सप्रपञ्चं चतुर्थी दृष्टिमभिधाय पञ्चमीमभिधातुमाह
स्थिरायां दर्शनं नित्यं प्रत्याहारवदेव च । कृत्यमभ्रान्तमनघं सूक्ष्मबोधसमन्वितम् ॥१५४॥
स्थिरायां=दृष्टौ, दर्शनं=बोधलक्षणं, नित्यम् = अप्रतिपाति निरतिचारायाम् । सातिचारायां तु प्रक्षीणनयनपटलोपद्रवस्य तदुक्तोपायानवबोधकल्पमनित्यमपि भवति, तथातिचारभावात्, रत्नप्रभायामपि धूल्यादेरुपद्रवः । प्रत्याहारवदेव च "स्वविषयासम्प्रयोगे स्वचित्तस्वरूपानुकारी चेन्द्रियाणां प्रत्याहारः " तद्वदेतद्दर्शनं कृत्यं वन्दनादि, अभ्रान्तं = क्रममधिकृत्य । अत एव अनघम्=अनतिचारत्वात् । एतदेव विशेष्यते सूक्ष्मबोधसमन्वितं ग्रन्थिभेदाद्वेद्यसंवेद्यपदोपपत्तेरिति ॥ १५४ ॥