Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 29
________________ योगदृष्टिसंग्रह योगदृष्टिसमुच्चयः प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥१०४॥ दार्टान्तिकयोजनामाह प्रतिपत्तिस्ततस्तस्य सर्वज्ञस्य सामान्येनैव यावतां तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वज्ञं मुख्यमेवेति न्यायगतिः परा, तमन्तरेण तत्प्रतिपत्तेरसिद्धः ॥१०४॥ सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०८॥ सर्वज्ञतत्त्वाभेदेन यथोदितनीत्या हेतुभूतेन । तथा नृपतिसमाश्रितबहुपुरुषवत्, सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः । तत्तत्त्वगा:= सर्वज्ञतत्त्वगाः ज्ञेयाः । भिन्नाचारस्थिता अपि तथाऽधिकारभेदेनेति ॥१०८॥ उपसंहरन्नाह विशेषस्तु पुनस्तस्य कार्येनाऽसर्वदर्शिभिः । सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ॥१०५॥ विशेषस्तु=भेद एव, पुनस्तस्य सर्वज्ञस्य, कात्स्येनासर्वदर्शिभिः= प्रमातृभिः, सर्वैर्न विज्ञायते तददर्शनात्, दर्शनेऽपि तज्ज्ञानाऽगतेः । तेन= कारणेन, तं सर्वज्ञं, आपन्नः प्रतिपन्नो, न कश्चन असर्वदर्शी ॥१०५॥ तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांऽशेनैव धीमताम् ॥१०६॥ न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥१०९॥ न भेद एव तत्त्वेन परमार्थेन, सर्वज्ञानां महात्मनां=भावसर्वज्ञानामित्यर्थः । तथेष्टानिष्टनामादिभेदेऽपि सति, भाव्यमेतन्महात्मभिः श्रुतमेधाऽसंमोहसारया प्रज्ञया ॥१०९॥ शास्त्रगर्भमेवोपपत्त्यन्तरमाह तस्मात्सामान्यतोऽप्येनं सर्वज्ञ, अभ्युपैति य एव हि कश्चिदसर्वदर्शी, निर्व्याजम् औचित्ययोगेन तदुक्तपालनपरः । तुल्य एवासौ तेनाशेन=सर्वज्ञप्रतिपत्तिलक्षणेन, धीमताम्=अनुपहतबुद्धीनामित्यर्थः ॥१०६॥ अमुमेवार्थं निदर्शनगर्भमाह यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नाऽऽदिभेदेऽपि तद्धृत्याः सर्व एव ते ॥१०७॥ यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य, बहवोऽपि समाश्रिताः= पुमांसो, दूरासन्नादिभेदेऽपि सति तथा नियोगादिभेदेन कृते, तभृत्याः= विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति ॥१०७॥ चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥११०॥ चित्राऽचित्रविभागेन=वक्ष्यमाणलक्षणेन, यच्च देवेषु वर्णिता लोकपालमुक्तादिषु, भक्तिः सद्योगशास्त्रेषु शैवाऽध्यात्मचिन्ताशास्त्रेषु । ततोऽपि कारणात्, एवमिदं स्थितं प्रस्तुतमिति ॥११०॥ अमुमेवार्थं स्पष्टयन्नाह

Loading...

Page Navigation
1 ... 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131