Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 33
________________ ५४ योगदृष्टिसंग्रह निर्वाणतत्त्वसेवायाम् । किमित्याह-विवाद उपपद्यते तत्तत्त्वज्ञानभेदाऽभावात् (तत्त्वज्ञानाभेदात्) अन्यथा प्रेक्षावत्त्वविरोधादिति ॥१३२॥ सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुमार्गस्तद्भेदस्तत्कथं भवेत् ? ॥१३३॥ योगदृष्टिसमुच्चयः ५३ सदाशिव इति सर्वकालं, शिवो न कदाचिदप्यशिवः, त्रिकालपरिशुद्धः सर्वाऽशिवाभावात् । परं प्रधानं ब्रह्म तथा बृहत्त्वबृंहकत्वाभ्यां सद्भावाऽऽलम्बनत्वात् । सिद्धात्मा कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः । तथातेति च आकालं तथाभावात् । यथोक्तम् उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ॥ विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता । भूतकोटिः पराऽत्यन्तं भूताऽर्थफलदेति च ॥ इत्यादिशब्दस्तन्निर्वाणमुच्यते । अन्वर्थाद=अन्वर्थेनोक्तनीत्या । एकमेव सद् एवमादिभिरिति ॥१३०॥ कथमेवमित्याह सर्वज्ञपूर्वकं चैतद्=अधिकृततत्त्वं निर्वाणाख्यम् । नियमादेव यस्थितम् असर्वज्ञस्य निर्वाणाऽनुपपत्तेः । आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षणः, ऋजुः अवक्रो, मार्गः पन्थाः । तद्भेदः सर्वज्ञभेदो मतभेदलक्षणः । तत् तस्मात् । कथं भवेत् स नैव भवतीति ॥१३३॥ देशनाभेदः कथमित्याशङ्क्याहचित्रा तु देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥१३४॥ तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥१३१॥ तल्लक्षणाविसंवादादिति निर्वाणलक्षणाऽविसंवादात् । एनमेवाहनिराबाधं निर्गतमाबाधाभ्यः अनामयंअविद्यमानद्रव्यभावरोगम् । निष्क्रिय च कर्तव्याऽभावान्निबन्धनाऽभावेन । परं तत्त्वम् एवम्भूतम् । यतो यस्मात्, जन्माद्ययोगतो जन्मजरामरणाऽयोगेन ॥१३१॥ ऐदम्पर्यमाह चित्रा तु=नानाप्रकारा पुनः, देशना="नित्य आत्मा अनित्य इति च" इत्यादिरूपा । एतेषां सर्वज्ञानां कपिलसुगतादीनां स्याद् भवेत्, विनेयानुगुण्यतः=तथाविधशिष्यानुगुण्येन कालान्तराऽपायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगाऽवस्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु तेऽन्वयव्यतिरेकवद् वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । एवं देशना तु तथागुणसम्पादनेनाऽदुष्टैवेत्याह-यस्मादेते महात्मानः सर्वज्ञाः । किमित्याह=भवव्याधिभिषग्वराः संसारव्याधिवैद्यप्रधानाः ॥१३४॥ अतः किमित्याह ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥१३२॥ ज्ञाते परिच्छिन्ने, निर्वाणतत्त्वेऽस्मिन् एवम्भूते, असंमोहेन-बोधेन, तत्त्वत:=परमार्थतः । किमित्याह-प्रेक्षावतां बुद्धिमतां, न तद्भक्तौन यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । सानुबन्धो भवत्येते ततो तस्य जगुस्ततः ॥१३५।।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131