Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 31
________________ योगदृष्टिसमुच्चयः ४९ वापीकूपतडागानि लोकप्रसिद्धान्येव, देवतायतनानि च = वसतिकादीनि, तथा अन्नप्रदानं लौकिकमेव । एतत्तु = एवम्भूतं, किमित्याह पूर्तं तत्त्वविदो विदुः इति=पूर्तपरिभाषया तत्त्वविदो वदन्ति ॥११७॥ आन्तरं हेतुमधिकृत्याह अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥११८॥ अभिसन्धेः = तथाविधाऽऽशयलक्षणात् । किमित्याह - फलं भिन्नं= संसारिदेवस्थानादि, अनुष्ठाने समेऽपि हि इष्टादौ । परमः प्रधानः, अतः= कारणात् । स एव = अभिसन्धिरेव । इह फलसिद्धौ, किंवदित्याह-वारीव कृषिकर्मणि इति दृष्टान्तः परमो लोकरूढ्या ॥ ११८ ॥ अभिसन्धिभेदनिबन्धनान्याह रागादिभिरयं चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तॄणां तथाबुद्ध्यादिभेदतः ॥ ११९॥ रागादिभिर्दोषैः, अयं च = अभिसन्धिः, इह लोके भिद्यतेऽनेकधा नृणां तन्मृदुमध्याऽधिमात्रभेदेन । किंविशिष्टानामित्याह - नानाफलोपभोक्तॄणां तथाबुद्ध्यादिभेदतः=वक्ष्यमाणाद्भिद्यतेऽभिसन्धिरिति ॥११९॥ एनमेवाह बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । तदभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥१२०॥ बुद्धिर्वक्ष्यमाणलक्षणा ज्ञानमप्येवमेव, असंमोहश्चैवं त्रिविधो बोध इष्यते शास्त्रेषु । तद्भेदाद् = बुद्ध्यादिभेदात्, सर्वकर्माणीष्टादीनि भिद्यन्ते ५० सर्वदेहिनां तद्धेतुभेदात्फलभेद इति कृत्वा ॥ १२० ॥ तत्र इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् । सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते ॥ १२१ ॥ योगदृष्टिसंग्रह इन्द्रियार्थाश्रया बुद्धिः = तीर्थयातृकदर्शने तद्गमनबुद्धिवत् । ज्ञानं त्वागमपूर्वकं तीर्थयात्राविधिविज्ञानवत्, सदनुष्ठानवच्चैतज्ज्ञानम् किमित्याह असंमोहोऽभिधीयते बोधराज इति ॥ १२१ ॥ एवमेतेषां लक्षणे व्यवस्थिते सति लोकसिद्धमुदाहरणमाह रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये ॥ १२२ ॥ रत्नोपलम्भः=सामान्येनेन्द्रियार्थाश्रया बुद्धिः, तज्ज्ञानं त्वागमपूर्वकं रत्नज्ञानं, तत्प्राप्त्यादि असंमोहः बोधगर्भत्वादस्य यथाक्रमम् इह = बुद्ध्यादौ उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात् । अत एवाह ज्ञेयं बुद्ध्यादिसिद्धये = बुद्धिज्ञानाऽसंमोहसिद्ध्यर्थमिति ॥१२२॥ सदनुष्ठानलक्षणमाह आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् ॥१२३ ॥ आदरो=यत्नातिशय इष्टादौ करणे प्रीति= अभिष्वङ्गात्मिका । अविघ्नः = तत्करण एवादृष्टसामर्थ्यात् । सम्पदागमः तत एव शुभभावपुण्यसिद्धेः जिज्ञासा इष्टादिगोचरैव, तन्निसेवा च इष्टोदिता सेवा, चशब्दात्तदनुग्रहग्रहः । एतत् सदनुष्ठानलक्षणम् अनुबन्धसारत्वादस्य ॥ १२३ ॥

Loading...

Page Navigation
1 ... 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131