________________
योगदृष्टिसमुच्चयः
४९
वापीकूपतडागानि लोकप्रसिद्धान्येव, देवतायतनानि च = वसतिकादीनि, तथा अन्नप्रदानं लौकिकमेव । एतत्तु = एवम्भूतं, किमित्याह पूर्तं तत्त्वविदो विदुः इति=पूर्तपरिभाषया तत्त्वविदो वदन्ति ॥११७॥
आन्तरं हेतुमधिकृत्याह
अभिसन्धेः फलं भिन्नमनुष्ठाने समेऽपि हि । परमोऽतः स एवेह वारीव कृषिकर्मणि ॥११८॥
अभिसन्धेः = तथाविधाऽऽशयलक्षणात् । किमित्याह - फलं भिन्नं= संसारिदेवस्थानादि, अनुष्ठाने समेऽपि हि इष्टादौ । परमः प्रधानः, अतः= कारणात् । स एव = अभिसन्धिरेव । इह फलसिद्धौ, किंवदित्याह-वारीव कृषिकर्मणि इति दृष्टान्तः परमो लोकरूढ्या ॥ ११८ ॥
अभिसन्धिभेदनिबन्धनान्याह
रागादिभिरयं चेह भिद्यतेऽनेकधा नृणाम् । नानाफलोपभोक्तॄणां तथाबुद्ध्यादिभेदतः ॥ ११९॥
रागादिभिर्दोषैः, अयं च = अभिसन्धिः, इह लोके भिद्यतेऽनेकधा नृणां तन्मृदुमध्याऽधिमात्रभेदेन । किंविशिष्टानामित्याह - नानाफलोपभोक्तॄणां तथाबुद्ध्यादिभेदतः=वक्ष्यमाणाद्भिद्यतेऽभिसन्धिरिति ॥११९॥
एनमेवाह
बुद्धिर्ज्ञानमसंमोहस्त्रिविधो बोध इष्यते । तदभेदात्सर्वकर्माणि भिद्यन्ते सर्वदेहिनाम् ॥१२०॥
बुद्धिर्वक्ष्यमाणलक्षणा ज्ञानमप्येवमेव, असंमोहश्चैवं त्रिविधो बोध इष्यते शास्त्रेषु । तद्भेदाद् = बुद्ध्यादिभेदात्, सर्वकर्माणीष्टादीनि भिद्यन्ते
५०
सर्वदेहिनां तद्धेतुभेदात्फलभेद इति कृत्वा ॥ १२० ॥
तत्र
इन्द्रियार्थाश्रया बुद्धिर्ज्ञानं त्वागमपूर्वकम् । सदनुष्ठानवच्चैतदसंमोहोऽभिधीयते ॥ १२१ ॥
योगदृष्टिसंग्रह
इन्द्रियार्थाश्रया बुद्धिः = तीर्थयातृकदर्शने तद्गमनबुद्धिवत् । ज्ञानं त्वागमपूर्वकं तीर्थयात्राविधिविज्ञानवत्, सदनुष्ठानवच्चैतज्ज्ञानम् किमित्याह असंमोहोऽभिधीयते बोधराज इति ॥ १२१ ॥
एवमेतेषां लक्षणे व्यवस्थिते सति लोकसिद्धमुदाहरणमाह
रत्नोपलम्भतज्ज्ञानतत्प्राप्त्यादि यथाक्रमम् । इहोदाहरणं साधु ज्ञेयं बुद्ध्यादिसिद्धये ॥ १२२ ॥
रत्नोपलम्भः=सामान्येनेन्द्रियार्थाश्रया बुद्धिः, तज्ज्ञानं त्वागमपूर्वकं रत्नज्ञानं, तत्प्राप्त्यादि असंमोहः बोधगर्भत्वादस्य यथाक्रमम् इह = बुद्ध्यादौ उदाहरणं साधु, अभिप्रेतार्थसाधकत्वात् । अत एवाह ज्ञेयं बुद्ध्यादिसिद्धये = बुद्धिज्ञानाऽसंमोहसिद्ध्यर्थमिति ॥१२२॥
सदनुष्ठानलक्षणमाह
आदरः करणे प्रीतिरविघ्नः सम्पदागमः । जिज्ञासा तन्निसेवा च सदनुष्ठानलक्षणम् ॥१२३ ॥
आदरो=यत्नातिशय इष्टादौ करणे प्रीति= अभिष्वङ्गात्मिका । अविघ्नः = तत्करण एवादृष्टसामर्थ्यात् । सम्पदागमः तत एव शुभभावपुण्यसिद्धेः जिज्ञासा इष्टादिगोचरैव, तन्निसेवा च इष्टोदिता सेवा, चशब्दात्तदनुग्रहग्रहः । एतत् सदनुष्ठानलक्षणम् अनुबन्धसारत्वादस्य ॥ १२३ ॥