________________
योगदृष्टिसमुच्चयः
संसारिषु हि देवेषु भक्तिस्तत्कायगामिनाम् । तदतीते पुनस्तत्त्वे तदतीतार्थयायिनाम् ॥ १११ ॥
संसारिषु हि देवेषु = लोकपालादिषु, भक्तिः = सेवा, तत्कायगामिनां= संसारिदेवकायगामिनां, तदतीते पुनः = संसारातीते तु तत्त्वे तदतीतार्थया - यिनां=संसाराऽतीतमार्गयायिनां योगिनां भक्तिः ॥ १११ ॥
अनयोर्विशेषमाह
चित्रा चाद्येषु तद्रागतदन्यद्वेषसङ्गता । अचित्रा चरमे त्वेषा शमसाराऽखिलैव हि ॥ ११२ ॥
४७
चित्रा च= नानाप्रकारा च आद्येषु = सांसारिकेषु देवेषु तद्रागतदन्यद्वेषसङ्गता=स्वाभीष्टदेवतारागाऽनभीष्टद्वेषसंयुक्ता, मोहगर्भत्वात् । अचित्रा= एकाकारा, चरमे= तदतीते तु तत्त्वे, एषा = भक्ति:, सा शमसारा=शमप्रधाना, अखिलैव हि तथासंमोहाऽभावादिति ॥ ११२ ॥
अत्रैव हेतुमाह
संसारिणां हि देवानां यस्माच्चित्राण्यनेकधा । स्थित्यैश्वर्यप्रभावाद्यैः स्थानानि प्रतिशासनम् ॥ ११३॥
संसारिणां हि देवानां = लोकपालादीनां यस्माच्चित्राणि=अनेकाकाराणि । अनेकधा=अनेकैः प्रकारे:, कैः कानीत्याह-स्थित्यैश्वर्यप्रभावाद्यैः आदिशब्दात्सहजरूपादिपरिग्रहः, स्थानानि = विमानादीनि । प्रतिशासनं शासनं प्रति ब्रह्माण्डत्रैविध्याऽनुभेदात् ॥११३॥
यस्मादेवम्
४८
योगदृष्टिसंग्रह
तस्मात्तत्साधनोपायो नियमाच्चित्र एव हि । न भिन्ननगराणां स्यादेकं वर्त्म कदाचन ॥११४॥
तस्मात् कारणात्, तत्साधनोपायः = संसारिदेवस्थानसाधनोपायो, नियमाच्चित्र एव हि भवति । इदमेव वस्तु लोकप्रसिद्धोदाहरणद्वारेणाऽऽह-न भिन्ननगराणां स्याद्=भवेत्, एकं वर्त्म कदाचन तथा तद्भेदाऽनुपपत्तेरिति ॥११४॥
तथा
इष्टापूर्तानि कर्माणि लोके चित्राभिसन्धितः । नानाफलानि सर्वाणि द्रष्टव्यानि विचक्षणैः ॥ ११५ ॥
इष्टापूर्तानि कर्माणि वक्ष्यमाणलक्षणानि, लोके= प्राणिगणे, चित्राभिसन्धितः कारणात् । किमित्याह - नानाफलानि चित्रफलानीति, योऽर्थः सर्वाणि द्रष्टव्यानि हेतुभेदात् । कैरित्याह-विचक्षणैः = विद्वद्भिरिति ॥ ११५ ॥ इष्टापूर्तस्वरूपमाह
ऋत्विग्भिर्मन्त्रसंस्कारैर्ब्राह्मणानां समक्षतः । अन्तर्वेद्यां हि यद्दत्तमिष्टं तदभिधीयते ॥ ११६॥
ऋत्विग्भिः=यज्ञाधिकृतैः मन्त्रसंस्कारैः करणभूतैः, ब्राह्मणानां समक्षतः तदन्येषां अन्तर्वेद्यां हि यद्दत्तं हिरण्यादि, इष्टं तदभिधीयते विशेषलक्षणयोगात् ॥ ११६॥
तथा
वापीकूपतडागानि देवतायतनानि च । अन्नप्रदानमेतत्तु पूर्तं तत्त्वविदो विदुः ॥११७॥