________________
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः
प्रतिपत्तिस्ततस्तस्य सामान्येनैव यावताम् । ते सर्वेऽपि तमापन्ना इति न्यायगतिः परा ॥१०४॥
दार्टान्तिकयोजनामाह
प्रतिपत्तिस्ततस्तस्य सर्वज्ञस्य सामान्येनैव यावतां तन्त्रान्तरीयाणामपि, ते सर्वेऽपि तमापन्नाः सर्वज्ञं मुख्यमेवेति न्यायगतिः परा, तमन्तरेण तत्प्रतिपत्तेरसिद्धः ॥१०४॥
सर्वज्ञतत्त्वाऽभेदेन तथा सर्वज्ञवादिनः । सर्वे तत्तत्त्वगा ज्ञेया भिन्नाचारस्थिता अपि ॥१०८॥
सर्वज्ञतत्त्वाभेदेन यथोदितनीत्या हेतुभूतेन । तथा नृपतिसमाश्रितबहुपुरुषवत्, सर्वज्ञवादिनः सर्वे जिनादिमतभेदावलम्बिनः । तत्तत्त्वगा:= सर्वज्ञतत्त्वगाः ज्ञेयाः । भिन्नाचारस्थिता अपि तथाऽधिकारभेदेनेति ॥१०८॥
उपसंहरन्नाह
विशेषस्तु पुनस्तस्य कार्येनाऽसर्वदर्शिभिः ।
सर्वैर्न ज्ञायते तेन तमापन्नो न कश्चन ॥१०५॥
विशेषस्तु=भेद एव, पुनस्तस्य सर्वज्ञस्य, कात्स्येनासर्वदर्शिभिः= प्रमातृभिः, सर्वैर्न विज्ञायते तददर्शनात्, दर्शनेऽपि तज्ज्ञानाऽगतेः । तेन= कारणेन, तं सर्वज्ञं, आपन्नः प्रतिपन्नो, न कश्चन असर्वदर्शी ॥१०५॥
तस्मात्सामान्यतोऽप्येनमभ्युपैति य एव हि । निर्व्याजं तुल्य एवासौ तेनांऽशेनैव धीमताम् ॥१०६॥
न भेद एव तत्त्वेन सर्वज्ञानां महात्मनाम् । तथा नामादिभेदेऽपि भाव्यमेतन्महात्मभिः ॥१०९॥
न भेद एव तत्त्वेन परमार्थेन, सर्वज्ञानां महात्मनां=भावसर्वज्ञानामित्यर्थः । तथेष्टानिष्टनामादिभेदेऽपि सति, भाव्यमेतन्महात्मभिः श्रुतमेधाऽसंमोहसारया प्रज्ञया ॥१०९॥
शास्त्रगर्भमेवोपपत्त्यन्तरमाह
तस्मात्सामान्यतोऽप्येनं सर्वज्ञ, अभ्युपैति य एव हि कश्चिदसर्वदर्शी, निर्व्याजम् औचित्ययोगेन तदुक्तपालनपरः । तुल्य एवासौ तेनाशेन=सर्वज्ञप्रतिपत्तिलक्षणेन, धीमताम्=अनुपहतबुद्धीनामित्यर्थः ॥१०६॥
अमुमेवार्थं निदर्शनगर्भमाह
यथैवैकस्य नृपतेर्बहवोऽपि समाश्रिताः । दूरासन्नाऽऽदिभेदेऽपि तद्धृत्याः सर्व एव ते ॥१०७॥
यथैवैकस्य नृपतेः कस्यचिद्विवक्षितस्य, बहवोऽपि समाश्रिताः= पुमांसो, दूरासन्नादिभेदेऽपि सति तथा नियोगादिभेदेन कृते, तभृत्याः= विवक्षितनृपतिभृत्याः, सर्व एव ते समाश्रिता इति ॥१०७॥
चित्राऽचित्रविभागेन यच्च देवेषु वर्णिता । भक्तिः सद्योगशास्त्रेषु ततोऽप्येवमिदं स्थितम् ॥११०॥
चित्राऽचित्रविभागेन=वक्ष्यमाणलक्षणेन, यच्च देवेषु वर्णिता लोकपालमुक्तादिषु, भक्तिः सद्योगशास्त्रेषु शैवाऽध्यात्मचिन्ताशास्त्रेषु । ततोऽपि कारणात्, एवमिदं स्थितं प्रस्तुतमिति ॥११०॥
अमुमेवार्थं स्पष्टयन्नाह