________________
योगदृष्टिसमुच्चयः
तत्र
योगदृष्टिसंग्रह प्राकृतेष्विह भावेषु येषां चेतो निरुत्सुकम् । भवभोगविरक्तास्ते भवातीतार्थयायिनः ॥१२७॥
बुद्धिपूर्वाणि कर्माणि सर्वाण्येवेह देहिनाम् । संसारफलदान्येव विपाकविरसत्वतः ॥१२४॥
बुद्धिपूर्वाणि कर्माणि सर्वाण्येव सामान्येन, इह-लोके, देहिनां= प्राणिनाम् । किमित्याह-संसारफलदान्येव अशास्त्रपूर्वकत्वात् । तथा चाहविपाकविरसत्वतः इति तेषां नियोगत एव विपाकविरसत्वादिति ॥१२४॥
प्राकृतेष्विह भावेषु शब्दादिषु बुद्धिपर्यवसानेषु, येषां चेतो निरुत्सुकं, निःसङ्गतासमावेशात् । भवभोगविरक्तास्ते एवम्भूता जीवा मुक्तकल्पा, भवातीतार्थयायिन उच्यन्ते, भवचित्ताऽसंस्पर्शादिति ॥१२७।।
ज्ञानपूर्वाणि तान्येव मुक्त्यङ्गं कुलयोगिनाम् ।
श्रुतशक्तिसमावेशादनुबन्धफलत्वतः ॥१२५॥
ज्ञानपूर्वाणि यथोदितज्ञाननिबन्धनानि, तान्येव कर्माणि । किमित्याह मुक्त्यङ्गं भवन्ति, कुलयोगिनां वक्ष्यमाणलक्षणानाम् । कुलयोगिग्रहणमन्याऽसम्भवज्ञापनार्थम् । कुत इत्याह-श्रुतशक्तिसमावेशात् हेतोः, अमृतशक्तिकल्पेयं नैतदभावे मुख्यं कुलयोगित्वम् । अत एवाह-अनुबन्धफलत्वतः मुक्त्यङ्गत्वसिद्धेः, तात्त्विकाऽनुबन्धस्यैवम्भूतत्वादिति ॥१२५॥
असंमोहसमुत्थानि त्वेकान्तपरिशुद्धितः । निर्वाणफलदान्याशु भवातीतार्थयायिनाम् ॥१२६॥
एक एव तु मार्गोऽपि तेषां शमपरायणः ।
अवस्थाभेदभेदेऽपि जलधौ तीरमार्गवत् ॥१२८॥
एक एव तु मार्गोऽपि चित्तविशुद्धिलक्षणः । तेषां भवातीतार्थयायिनां शमपरायणः शमनिष्ठः । अवस्थाभेदभेदेऽपि गुणस्थानक भेदापेक्षया । जलधौ तीरमार्गवदिति निदर्शनम् । अवस्थाभेदश्चेह तह्रासन्नतादिभेदेन ॥१२८॥
परतत्त्वाऽभिधित्सयाऽऽह
संसाराऽतीतत्त्वं तु परं निर्वाणसज्ञितम् । तद्धयेकमेव नियमाच्छब्दभेदेऽपि तत्त्वतः ॥१२९॥
असंमोहसमुत्थानि=पुनर्यथोदितासंमोहनिबन्धनानि तु । एकान्तपरिशुद्धितः कारणात्, परिपाकवशेन । किमित्याह-निर्वाणफलदान्याशु-शीघ्रं तान्येव कर्माणि । केषामित्याह-भवातीतार्थयायिनां सम्यक्परतत्त्ववेदिनामित्यर्थः ॥१२६॥
एतेषामेव लक्षणमाह
संसाराऽतीततत्त्वं त्विति संसाराऽतीतं पुनस्तत्त्वम् । किमित्याह-परं= प्रधानं, निर्वाणसज्ञितं निर्वाणसञ्ज्ञा सञ्जाताऽस्येति कृत्वा । तद्धयेकमेव सामान्येन, नियमात् नियमेन, शब्दभेदेऽपि वक्ष्यमाणलक्षणे सति, तत्त्वत:= परमार्थन ॥१२९॥
एतदेवाह
सदाशिवः परं ब्रह्म सिद्धात्मा तथातेति च । शब्दैस्तदुच्यतेऽन्वर्थादेकमेवैवमादिभिः ॥१३०॥