________________
५४
योगदृष्टिसंग्रह
निर्वाणतत्त्वसेवायाम् । किमित्याह-विवाद उपपद्यते तत्तत्त्वज्ञानभेदाऽभावात् (तत्त्वज्ञानाभेदात्) अन्यथा प्रेक्षावत्त्वविरोधादिति ॥१३२॥
सर्वज्ञपूर्वकं चैतन्नियमादेव यत्स्थितम् । आसन्नोऽयमृजुमार्गस्तद्भेदस्तत्कथं भवेत् ? ॥१३३॥
योगदृष्टिसमुच्चयः
५३ सदाशिव इति सर्वकालं, शिवो न कदाचिदप्यशिवः, त्रिकालपरिशुद्धः सर्वाऽशिवाभावात् । परं प्रधानं ब्रह्म तथा बृहत्त्वबृंहकत्वाभ्यां सद्भावाऽऽलम्बनत्वात् । सिद्धात्मा कृतकृत्यात्मा निष्ठितार्थ इत्यर्थः । तथातेति च आकालं तथाभावात् । यथोक्तम्
उपादाननिमित्ताभ्यामधिकारित्वता ध्रुवा । सर्वकालं तथाभावात्तथातेत्यभिधीयते ॥ विसंयोगात्मिका चेयं त्रिदुःखपरिवर्जिता ।
भूतकोटिः पराऽत्यन्तं भूताऽर्थफलदेति च ॥ इत्यादिशब्दस्तन्निर्वाणमुच्यते । अन्वर्थाद=अन्वर्थेनोक्तनीत्या । एकमेव सद् एवमादिभिरिति ॥१३०॥
कथमेवमित्याह
सर्वज्ञपूर्वकं चैतद्=अधिकृततत्त्वं निर्वाणाख्यम् । नियमादेव यस्थितम् असर्वज्ञस्य निर्वाणाऽनुपपत्तेः । आसन्नोऽयं निर्वाणस्य सर्वज्ञलक्षणः, ऋजुः अवक्रो, मार्गः पन्थाः । तद्भेदः सर्वज्ञभेदो मतभेदलक्षणः । तत् तस्मात् । कथं भवेत् स नैव भवतीति ॥१३३॥
देशनाभेदः कथमित्याशङ्क्याहचित्रा तु देशनैतेषां स्याद्विनेयाऽऽनुगुण्यतः । यस्मादेते महात्मानो भवव्याधिभिषग्वराः ॥१३४॥
तल्लक्षणाविसंवादान्निराबाधमनामयम् । निष्क्रियं च परं तत्त्वं यतो जन्माद्ययोगतः ॥१३१॥
तल्लक्षणाविसंवादादिति निर्वाणलक्षणाऽविसंवादात् । एनमेवाहनिराबाधं निर्गतमाबाधाभ्यः अनामयंअविद्यमानद्रव्यभावरोगम् । निष्क्रिय च कर्तव्याऽभावान्निबन्धनाऽभावेन । परं तत्त्वम् एवम्भूतम् । यतो यस्मात्, जन्माद्ययोगतो जन्मजरामरणाऽयोगेन ॥१३१॥
ऐदम्पर्यमाह
चित्रा तु=नानाप्रकारा पुनः, देशना="नित्य आत्मा अनित्य इति च" इत्यादिरूपा । एतेषां सर्वज्ञानां कपिलसुगतादीनां स्याद् भवेत्, विनेयानुगुण्यतः=तथाविधशिष्यानुगुण्येन कालान्तराऽपायभीरुमधिकृत्योपसर्जनीकृतपर्याया द्रव्यप्रधाना नित्यदेशना, भोगाऽवस्थावतस्त्वधिकृत्योपसर्जनीकृतद्रव्या पर्यायप्रधाना अनित्यदेशना । न तु तेऽन्वयव्यतिरेकवद् वस्तुवेदिनो न भवन्ति, सर्वज्ञत्वाऽनुपपत्तेः । एवं देशना तु तथागुणसम्पादनेनाऽदुष्टैवेत्याह-यस्मादेते महात्मानः सर्वज्ञाः । किमित्याह=भवव्याधिभिषग्वराः संसारव्याधिवैद्यप्रधानाः ॥१३४॥
अतः किमित्याह
ज्ञाते निर्वाणतत्त्वेऽस्मिन्नसंमोहेन तत्त्वतः । प्रेक्षावतां न तद्भक्तौ विवाद उपपद्यते ॥१३२॥
ज्ञाते परिच्छिन्ने, निर्वाणतत्त्वेऽस्मिन् एवम्भूते, असंमोहेन-बोधेन, तत्त्वत:=परमार्थतः । किमित्याह-प्रेक्षावतां बुद्धिमतां, न तद्भक्तौन
यस्य येन प्रकारेण बीजाऽऽधानादिसम्भवः । सानुबन्धो भवत्येते ततो तस्य जगुस्ततः ॥१३५।।