Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 35
________________ योगदृष्टिसमुच्चयः परिभव इत्यर्थः । किमित्याह-जिह्वाच्छेदाधिको मतः तथाविधप्रत्यपायभावेन ॥ १४१ ॥ किञ्च कुदृष्ट्यादिवन्नो सन्तो भाषन्ते प्रायशः क्वचित् । निश्चितं सारखच्चैव किन्तु सत्त्वार्थकृत्सदा ॥ १४२॥ कुदृष्ट्यादिवत्=कुत्स्यमित्यादि, नो सन्तो=मुनयो, भाषन्ते क्वचित् । कथं तर्हि भाषन्त इत्याह-निश्चितम् =असन्दिग्धं, सारवच्चैव=नापार्थकम् किन्तु सत्त्वार्थकृत्=परार्थकरणशीलं सदा भाषन्ते ॥१४२॥ उपसंहरन्नाह - निश्चयोऽतीन्द्रियार्थस्य योगिज्ञानादृते न च । अतोऽप्यत्राऽन्धकल्पानां विवादेन न किञ्चन ॥१४३॥ ५७ निश्चयोऽतीन्द्रियार्थस्य = सर्वज्ञादेः, योगिज्ञानादृते न च तत एव तत्सिद्धेः, अतोऽपि कारणाद् अत्र = सर्वज्ञाऽधिकारे, अन्धकल्पानां= विशेषतस्तदतत्त्वदर्शिनां, विवादेन न किञ्चन = सच्चित्तनाशफलेन ॥१४३॥ न चानुमानविषय एषोऽर्थस्तत्त्वतो मतः । न चातो निश्चयः सम्यगन्यत्राऽप्याह धीधनः ॥१४४॥ न चानुमानविषयो=न च युक्तिगोचरः, एषोऽर्थः = सर्वज्ञविशेषलक्षणः, तत्त्वतो मतः=परमार्थेनेष्टः । न चातो=अनुमानात्, निश्चयः सम्यगन्यत्रापि= सामान्यार्थे आह धीधनः = स भर्तृहरिः ॥१४४॥ किमाहेत्याह ५८ यत्नेनाऽनुमितोऽप्यर्थः कुशलैरनुमातृभिः । अभियुक्ततरैरन्यैरन्यथैवोपपद्यते ॥१४५॥ योगदृष्टिसंग्रह यत्नेनानुमितोऽप्यर्थो=अन्वयाद्यनुसारेण, कुशलैरनुमातृभिः=अन्वयादिज्ञैः, अभियुक्ततरैरन्यैः = अन्वयादिज्ञैरेव । अन्यथैवोपपाद्यते तथाऽ सिद्ध्यादिप्रकारेण ॥ १४५ ॥ अभ्युच्चयमाह ज्ञायेरन् हेतुवादेन पदार्था यद्यतीन्द्रियाः । कालेनैतावता प्राज्ञैः कृतः स्यात्तेषु निश्चयः ॥१४६॥ ज्ञायेरन् हेतुवादेन=अनुमानवादेन, पदार्था यद्यतीन्द्रियाः=सर्वज्ञादयः, कालेनैतावता प्राज्ञैः=तार्किकैः कृतः स्यात्तेषु निश्चयो =अवगम इति ।। १४६ ।। न चैतदेवं यत्तस्माच्छुष्कतर्कग्रहो महान् । मिथ्याभिमानहेतुत्वात्त्याज्य एव मुमुक्षुभिः ॥ १४७॥ न चैतदेवं यद्=येन कारणेन तस्माच्छुष्कतर्कग्रहो महान् = अतिरौद्रः । मिथ्याभिमानहेतुत्वात् कारणात् त्याज्य एव मुमुक्षुभिः = मोक्तुमिच्छुभिः ॥ १४७॥ किञ्च ग्रहः सर्वत्र तत्त्वेन मुमुक्षूणामसङ्गतः । मुक्त धर्मा अपि प्रायस्त्यक्तव्याः किमनेन तत् ? ॥१४८॥ ग्रहः सर्वत्र = वस्तुनि, तत्त्वेन परमार्थेन, मुमुक्षूणामसङ्गतो=अयुक्तः ।

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131