Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 37
________________ योगदृष्टिसमुच्चयः बालधूलीगृहक्रीडातुल्याऽस्यां भाति धीमताम् । तमोग्रन्थिविभेदेन भवचेष्टाऽखिलैव हि ॥ १५५ ॥ बालधूलीगृहक्रीडातुल्या प्रकृत्यसुन्दरत्वास्थिरत्वाभ्याम्, अस्यां= स्थिरायां दृष्टौ, भाति धीमतां पुंसां, तमोग्रन्थिविभेदेन हेतुना, भवचेष्टाऽखिलैव हि चक्रवर्त्यादिचेष्टरूपाऽपि प्रकृत्यसुन्दरत्वादस्थिरत्वाच्च ॥ १५५ ॥ ६१ मायामरीचिगन्धर्वनगरस्वप्नसन्निभान् । बाह्यान् पश्यति तत्त्वेन भावान् श्रुतविवेकतः ॥ १५६ ॥ मायामरीचयो=मृगतृष्णिका, गन्धर्वनगरं हरिश्चन्द्रपुरादि, स्वप्नः = प्रतीत एव एतत्सन्निभान् = एतदाकारान्, बाह्यान् = देहगृहादीन्, पश्यति तत्त्वेन=परमार्थेन, भावान् = पदार्थान् । कुत इत्याह- श्रुतविवेकतः = सम्यक्परिणतेन श्रुतज्ञानेन ॥१५६॥ अबाह्यं केवलं ज्योतिर्निराबाधमनामयम् । यत्र तत्परं तत्त्वं शेषः पुनरुपप्लवः ॥ १५७॥ अबाह्यम्=अन्तरं, केवलम् = एकं, ज्योतिः = ज्ञानं, अनाबाधम्= अमूर्ततया पीडारहितम् अनामयम् = अरोगम् । अत एव यदत्र = लोके, तत्परं तत्त्वं वर्तते सदा तथाभावात् । शेषः पुनरुपप्लवः तथा स्वरूपेण भावादिति ।।१५७।। एवं विवेकिनो धीराः प्रत्याहारपरास्तथा । धर्मबाधापरित्यागयलवन्तश्च तत्त्वतः ॥ १५८ ॥ एवम्=उक्तनीत्या, विवेकिन= एते, धीरा = अचपलाः, प्रत्याहारपरा= उक्तलक्षणप्रत्याहारप्रधानाः । तथा तेन प्रकारेण । धर्मबाधापरित्याग ६२ यत्नवन्तश्च तथाऽन्तः परिशुद्धेः, तत्त्वतः = परमार्थेन ॥ १५८ ॥ एते हि भिन्नग्रन्थित्वादुत्तमश्रुतप्रधाना इत्येवमालोचयन्ति योगदृष्टिसंग्रह न ह्यलक्ष्मीसखी लक्ष्मीर्यथानन्दाय धीमताम् । तथा पापसखा लोके देहिनां भोगविस्तरः ॥ १५९ ॥ न हि नैव, अलक्ष्मीसखी लक्ष्मी:, तथोभयपरिभोगेन, यथानन्दाय = आनन्दार्थं, धीमतां बुद्धिमतां, तथा पापसखा लोके तदविनाभावेन, देहिनां भोगविस्तरो नानन्दाय, "नानुपहत्य भूतानि भोगः सन् भवति भूतोपघाताच्च पापमिति भावना" ॥१५९॥ धर्मभोगः सुन्दर इत्यप्याशङ्काऽपोहायाऽऽह धर्मादपि भवन् भोगः प्रायो ऽनर्थाय देहिनाम् । चन्दनादपि सम्भूतो दहत्येव हुताशनः ॥ १६० ॥ धर्मादपि भवन् भोगो देवलोकाद्रौ, प्रायो= बाहुल्येन, अनर्थाय देहिनां तथा प्रमादविधानात् । प्रायोग्रहणं शुद्धधर्माक्षेपिभोगनिरासार्थं तस्य प्रमादबीजत्वायोगात्, अत्यन्तानवद्यतीर्थकरादिफलशुद्धेः पुण्यशुद्ध्यादावागमाभिनिवेशाद्धर्मसारचित्तोपपत्तेरिति । सामान्यतो दृष्टान्तमाह- चन्दनादपि सम्भूतः तथा शैत्यप्रकृतेः । किमित्याह - दहत्येव हुताशनः तथास्वभावत्वात् । प्राय एतदेव न दहत्यपि कश्चि (क्वचि) त्सत्यमन्त्राभिसंस्कृताद्दाहाऽसिद्धेः । सकललोक (प्र) सिद्धमेतदिति ॥ १६०॥ भोगात्तदिच्छाविरतिः स्कन्धभाराऽपनुत्तये । स्कन्धाऽन्तरसमारोपस्तत्संस्कारविधानतः ॥ १६१॥ भोगात् सकाशात्, तदिच्छाविरतिः = भोगेच्छाविरतिस्तात्कालिकी ।

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131