________________
३६
योगदृष्टिसंग्रह
योगदृष्टिसमुच्चयः तत्तथाविधम् । अत एवाह भवाभिनन्दिविषयम् एतद्, भवाभिनन्दी वक्ष्यमाणलक्षणः । समारोपसमाकुलमिति मिथ्यात्वदोषतोऽपायगमनाभिमुखमित्यर्थः ७५॥
भवाभिनन्दिलक्षणमाह
विपर्यासपरा विपर्यासप्रधाना नराः । किमित्याह-हिताहितविवेकाऽन्धाः एतद्रहिता इत्यर्थः । अत एवाह-खिद्यन्ते साम्प्रतेक्षिण:-वर्तमानदर्शिनः सन्त इति ॥७८॥
तथा च
क्षुद्रो लाभरतिर्दीनो मत्सरी भयवान् शठः । अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः ॥७६॥
जन्ममृत्युजराव्याधिरोगशोकाद्युपद्रुतम् । वीक्षमाणा अपि भवं नोद्विजन्तेऽतिमोहतः ॥७९॥
जन्म=प्रादुर्भावलक्षणं, मृत्यु:=प्राणत्यागस्वरूपः, जरा वयोहान्यात्मिका, व्याधिः कुष्ठादिलक्षणः, रोगो विशुचिकाद्यातङ्कः, शोकः= इष्टवियोगादिजो मनोविकारः, आदिशब्दाद्ग्रहादिपरिग्रहः, एभिः उपद्रुतं= कदर्थितम् । वीक्षमाणा अपि पश्यन्तोऽपि सन्तः । भवं संसारं, नोद्विजन्तेऽस्मादिति प्रक्रमः । अतिमोहतो हेतोरिति ॥७९॥
तथाह्यमीषां किमित्याह
क्षुद्रः कृपणः । लाभरतिः याञ्चाशीलः । दीनः सदैवाऽकल्याणदर्शी । मत्सरी परकल्याणदुःस्थितः । भयवान् नित्यभीतः । शठो मायावी । अज्ञो मूर्खः । भवाभिनन्दी=संसारबहुमानी । स्याद् एवम्भूतो, निष्फलारम्भसङ्गतः सर्वत्राऽतत्त्वाभिनिवेशादिति ॥७६॥
यदि नामैवं ततः किमित्याहइत्यसत्परिणामानुविद्धो बोधो न सुन्दरः । तत्सङ्गादेव नियमाद्विषसम्पृक्तकान्नवत् ॥७७॥
इत्येवं भवाभिनन्दिपरिणामे सति, अस्याऽसत्परिणामत्वात् । असत्परिणामानुविद्धो बोध: सामान्येन न सुन्दरः । कुत इत्याह-तत्सङ्गादेव विवक्षिताऽसत्परिणामसम्बन्धादेव, नियमाद् नियमेन । किमिवेत्याहविषसम्पृक्तकान्नवत् इति निदर्शनमात्रम् ॥७७॥
फलत एतदेवाह
कुकृत्यं कृत्यमाभाति कृत्यं चाकृत्यवत्सदा । दुःखे सुखधियाऽऽकृष्टाः कच्छूकण्डूयकादिवत् ॥८॥
कुकृत्यं प्राणातिपातारम्भादि, कृत्यमाभाति मोहात्, कृत्यं च= अहिंसाऽनारम्भादि च, अकृत्यवत्सदा आभाति मोहादेव । दुःखे समारम्भादौ, सुखधिया सुखबुद्ध्या आकृष्टा आकर्षिताः । किंवदित्याह-कच्छूकण्डूयकादिवत् कच्छू=पामा तस्याः कण्डूयकाः, कण्डूयन्त इति कण्डूयकाः, आदिशब्दात्कृमिप्रतुद्यमानाग्निसेवककुष्ठिपरिग्रहः ॥८०॥
अमुमेवार्थ स्पष्टयन्नाहयथा कण्डूयनेष्वेषां धीन कच्छूनिवर्तने । भोगाङ्गेषु तथैतेषां न तदिच्छापरिक्षये ॥८१॥
एतद्वन्तोऽत एवेह विपर्यासपरा नराः । हिताहितविवेकाऽन्धाः खिद्यन्ते साम्प्रतेक्षिणः ॥७८॥
एतद्वन्तो वेद्यसंवेद्यपदवन्तः । अत एव कारणात् । इह लोके,