________________
योगदृष्टिसमुच्चयः
कस्यचित्कण्डूयकस्य कण्डूयनाऽतिरेकात्परिक्षीणनखस्य सिकताक्षितिनिवासात्कथञ्चिदनवाप्ततृणकण्डूविनोदकस्य भिक्षापुटिकाद्यैर्गृहीततृणपूलकेन वैद्यपथिकेन दर्शनं बभूव । स तेन तृणमेकं याचितो दत्तं चाऽनेन तत्तस्मै । परितुष्टोऽसौ हृदयेन, चिन्तितं च सतोषं "अहो धन्यः खल्वयं यस्यैतावन्ति कण्डूयनानि' । पृष्टश्च स 'क्व खल्वेतान्येवमतिप्रभूतान्यवाप्यन्ते' ? । तेनोक्तम् 'लाटदेशादौ प्रयोजनं किञ्च तवैभिः ?' । तेनोक्तम् 'कच्छूकण्डूविनोदम्' । पथिक आह 'यद्येवं, ततः किमेभिः ?' कच्छूमेव ते सप्तरात्रेणापनयामि कुरुष्व योगं त्रिफलायाः' । स पुनराह 'कच्छपगमे कण्डूविनोदाऽभावे किं फलं जीवितस्य' तदलं त्रिफलया क्व चैतान्यवाप्यन्त इत्येतदेव कथय' । इति श्लोकगर्भाऽर्थः । अक्षरगमनिका तु । तथा कण्डूयनेष्वेषां तथैतेषां भवाभिनन्दिनां धीर्न तदिच्छापरिक्षये= न भोगेच्छानिवृत्तौ तत्त्वाऽनभिज्ञतयैव, वयः परिपाकेऽपि वाजीकरणाऽऽदरात् । इच्छाग्रहणमिह भोगक्रियोपलक्षणम्
॥८१॥
यतश्चैवमतः
आत्मानं पाशयन्त्येते सदाऽसच्चैष्टया भृशम् । पापल्या जडाः कार्यमविचार्यैव तत्त्वतः ॥८२॥
३७
आत्मानं= जीवं, पाशयन्ति = गण्डयन्ति एते = अधिकृतसत्त्वाः, सदा सर्वकालम्, असच्चेष्टया=प्राणातिपातारम्भरूपतया हेतुभूतया भृशम्= अत्यर्थम् । कया पाशयन्तीत्याह- पापधूल्या= ज्ञानावरणीयादिलक्षणया । जडा=मन्दाः | कार्यमविचार्यैव तत्त्वतः = परमार्थेन क्षणिककुसुखसक्ततया - ऽऽत्मानं पाशयन्तीति ॥८२॥
तथा हि
धर्मबीजं परं प्राप्य मानुष्यं कर्मभूमिषु ।
न सत्कर्मकृषावस्य प्रयतन्तेऽल्पमेधसः ॥८३॥
३८
योगदृष्टिसंग्रह
धर्मबीजं धर्मकारणं, परं प्रधानं प्राप्य= आसाद्य । किं तदित्याहमानुष्यं =मानुषत्वं । क्वेत्याह- कर्मभूमिषु = भरताद्यासु । किमित्याह-न सत्कर्मकृषौ=धर्मबीजाधानादिरूपायां, अस्य = धर्मबीजस्य, प्रयतन्तेऽल्पमेधसः = अल्पमतय इत्यर्थः ॥८३॥
किन्तर्हि
बडिशामिषवत्तुच्छे कुसुखे दारुणोदये ।
सक्तास्त्यजन्ति सच्चेष्टां धिगहो दारुणं तमः ॥८४॥
बडिशामिषवदिति निदर्शनं मत्स्यगलमांसवत् । तुच्छे=अल्पे । कुसुखे = दुष्टभोगजे, दारुणोदये= रौद्रविपाके, समयपरिभाषेयम् । सक्तागृद्धाः । किमित्याह - त्यजन्ति सच्चेष्टां= धर्मसाधनम् । कर्मदोषोऽयमित्याहधिगहो दारुणं तमः कष्टमज्ञानमिति योऽर्थः ॥ ८४ ॥
उपसंहरन्नाह
अवेद्यसंवेद्यपदमान्ध्यं दुर्गतिपातकृत् ।
सत्सङ्गागमयोगेन जेयमेतन्महात्मभिः ॥८५॥
अवेद्यसंवेद्यपदम्=उक्तलक्षणं, आन्ध्यं = अन्धभावरूपम् । अत एवाह दुर्गतिपातकृत्=दुर्गतिपातकरणशीलम् । सत्सङ्गागमयोगेन=विशिष्टसङ्गाऽऽगमसम्बन्धेनेत्यर्थः । एकवद्भावः पुरुषप्राधान्यख्यापनपरः । जेयमेतद्= अवेद्यसंवेद्यपदं, महात्मभिः = पुम्भिः अस्यामेव भूमिकायामन्यदा जेतुमशक्यत्वात् । अत एवानुवादपरोऽप्यागम इति योगाचार्याः, अयोग्यनियोगाऽ सिद्धेरिति ॥८५॥
अत एव जयलिङ्गान्याह
जीयमाने च नियमादेतस्मिंस्तत्त्वतो नृणाम् । निवर्तते स्वतोऽत्यन्तं कुतर्कविषमग्रहः ॥८६॥