________________
योगदृष्टिसमुच्चयः
३९ जीयमाने च नियमादेतस्मिन् अवेद्यसंवेद्यपदे महामिथ्यात्वनिबन्धने पशुत्वादिशब्दवाच्ये । तत्त्वत: परमार्थेन, नृणां पुंसां, निवर्तते स्वतः= आत्मनैवापरोपदेशेन, निमित्ताभावे नैमित्तिकाभावात् । अत्यन्तं नितरां सम्यग्ज्ञानयोगात्, आगमप्रामाण्याऽवगमात् । कुतर्कविषमग्रहो दृष्टाऽपायहेतुत्वेन ग्रह इव ग्रहः ॥८६॥
किंविशिष्टोऽयमित्याह
योगदृष्टिसंग्रह बीजं चास्य श्रुतादेः, परं सिद्धं प्रधानं प्रतिष्ठितम् । अवन्ध्यं = नियतफलदायि, सर्वयोगिनां कुलयोगिप्रभृतीनाम् । किं तदित्याह-परार्थकरणं परप्रयोजननिष्पादनं, येन कारणेन परिशुद्धं अन्याऽनुपघातेन । अतः= कारणात् । अत्र च परार्थकरणे युक्तोऽभिनिवेश इति ॥८९॥
कुतर्काऽसारतामेवाऽभिधातुमाह
बोधरोगः शमापायः श्रद्धाभङ्गोऽभिमानकृत् । कुतर्कश्चेतसो व्यक्तं भावशत्रुरनेकधा ॥८७॥
बोधरोगः तद्यथावस्थितोपघातभावात् । शमापायो=असदभिनिवेशजनकत्वात् श्रद्धाभङ्गः आगमाऽर्थाऽप्रतिपत्तेः । अभिमानकृत् मिथ्याभिमानजनकत्वात् । एवं कुतर्कः आगमनिरपेक्ष इत्यर्थः । किमित्याहचेतसः अन्त:करणस्य, भावशत्रुः परमार्थरिपुः, अनेकधा आर्याऽपवादादिकारणेन ॥८७॥
यतश्चैवमतः किमित्याह
अविद्यासङ्गताः प्रायो विकल्पाः सर्व एव यत् । तद्योजनात्मकश्चैष कुतर्कः किमनेन तत् ? ॥१०॥
अविद्यासङ्गता=ज्ञानावरणीयादिसम्पृक्ताः । प्रायो बाहुल्येन । विकल्पाः सर्व एव शब्दविकल्पाः अर्थविकल्पाश्च, यत्तद्योजनात्मको विकल्पयोजनात्मकः, चैष गोमयपायसादिविकल्पनेन, कुतर्क उक्तलक्षणः, किमनेन तत् ? न किञ्चिदित्यर्थः ॥१०॥
किञ्च
जातिप्रायश्च सर्वोऽयं प्रतीतिफलबाधितः । हस्ती व्यापादयत्युक्तौ प्राप्ताऽप्राप्तविकल्पवत् ॥११॥
कुतर्केऽभिनिवेशस्तन्न युक्तो मुक्तिवादिनाम् । युक्तः पुनः श्रुते शीले समाधौ च महात्मनाम् ॥८८॥
कुतर्के उक्तलक्षणे, अभिनिवेश:=तथातद्ग्रहरूपः । किमित्याह-न युक्तः । केषामित्याह मुक्तिवादिनां संन्यासिनामित्यर्थः । युक्तः पुनः श्रुते= आगमे, शीले परद्रोहविरतिलक्षणे, समाधौ च ध्यानफलभूते, महात्मनां= मुक्तिवादिनामभिनिवेशो युक्त इति ॥४८॥
जातिप्रायश्च दूषणाभासप्रायश्च सर्वोऽयं कुतर्कः । प्रतीतिफलबाधित इति कृत्वा । एतदेवाह-हस्ती व्यापादयत्युक्तौ मेण्ठेन । किमिवेत्याह-प्राप्ताऽप्राप्तविकल्पवत् इति । कश्चिन्नैयायिकश्छात्रः कुतश्चिदागच्छन् अवशीभूतमत्तहस्त्यारूढेन केनचिदुक्तः, 'भोः भोः त्वरितमपसर हस्ती व्यापादयति' इति च । तथाऽपरिणतन्यायशास्त्र आह रि रे बठर किमेवं युक्तिबाह्यं प्रलपसि । तथाहि किमयं प्राप्तं व्यापादयति किं वाऽप्राप्तमिति ? | आद्यपक्षे भवत एव व्यापत्तिप्रसङ्गः, प्राप्तिभावात्' एवं यावदाह तावद्धस्तिना गृहीतः, स कथमपि मेण्ठेन मोचित इति । जातिप्रायता सर्वत्र भिन्नाऽर्थग्रहणस्वभावसंवेदनवेदने तद्गताकारविकल्पनस्येवंप्रायत्वादिति चर्चितमन्यत्र ॥११॥
बीजं चास्य परं सिद्धमवन्ध्यं सर्वयोगिनाम् । परार्थकरणं येन परिशुद्धमतोऽत्र च ॥८९॥