________________
योगदृष्टिसमुच्चयः
किञ्च
स्वभावोत्तरपर्यन्त एषोऽसावपि तत्त्वतः । नावग्ग्गोचरो न्यायादन्यथाऽन्येन कल्पितः ॥९२॥
४१
स्वभावोत्तरपर्यन्त एष = कुतर्कः । अत्र च वस्तुस्वभावैरुत्तरं वाच्यमिति वचनात् । एवमग्निर्दहत्यापः क्लेदयन्तीति स्वभाव एषामिति । असावपि=स्वभावः । तत्त्वतः = परमार्थेन । नार्वाग्ग्गोचरो =न छद्मस्थविषयः । न्यायात्=न्यायेन परप्रसिद्धेन । किम्भूतः सन्नित्याह- अन्यथा=प्रकारान्तरेण, अन्येन = प्रतिवादिना, कल्पितः सन्निति । तथा हि अथ वस्तुस्वभावैरुत्तरं वाच्यमिति सर्वत्रैव तथा तत्तत्सिद्धौ वक्तुं पार्यते । कथम् ? येन तदर्थक्रियाकरणस्वभावस्तेन तां करोति न पुनः क्षणिकतया, तस्याः सर्वभावेष्वेवाऽभ्युपगमात् । यतः कुतश्चित्तदर्थक्रियाभावप्रसङ्गात्तन्निबन्धनाविशेषादिति । एवमग्निः क्लेदयत्यप्सन्निधौ तथास्वभावत्वात् । तथाऽऽपो दहन्त्यग्निसन्निधौ तथास्वभावत्वादेव । स्वभाववैचित्र्यान्नाऽत्रापि लोकबाधामन्तरेणाऽपरो वा स्वभावो, दृष्टान्तमात्रस्य सर्वत्र सुलभत्वात् । तदेवमसमञ्जसकारी कुतर्क इत्यैदम्पर्यम् ॥९२॥
अमुमेवार्थ विशेषेणाऽभिधातुमाह
अतोऽग्निः क्लेदयत्यम्बुसन्निधौ दहतीति च । अम्ब्वग्निसन्निधौ तत्स्वाभाव्यादित्युदिते तयोः ॥ ९३ ॥
यतो नार्वाग्दृग्गोचरोऽधिकृतस्वभावः, अतो = अस्मात्कारणात् । अग्निः क्लेदयति अध्यक्षविरोधपरिहारायाह- अम्बुसन्निधौ इति । दहति चाऽम्बु न प्रतीतिबाधेत्याह-अग्निसन्निधौ इति । किमित्येतदेवमित्याह- तत्स्वाभाव्यात्तयोः अग्न्यम्बुनोरिति । उदिते सत्यपि परवादिना ॥९३॥
किमित्याह
४२
योगदृष्टिसंग्रह
कोशपानादृते ज्ञानोपायो नास्त्यत्र युक्तितः । विप्रकृष्टोऽप्ययस्कान्तः स्वार्थकृद् दृश्यते यतः ॥९४॥
कोशपानादृते= कोषपानं विना, ज्ञानोपायो नास्त्यत्र = स्वभावव्यतिकरे, युक्तितः = शुष्कतर्कयुक्त्या कश्चिदपरो दृष्टान्तोऽप्यस्यार्थस्योपोद्बलको विद्यते एवेत्याह- विप्रकृष्टोऽप्ययस्कान्तः - लोहाकर्ष उपलविशेषः, स्वार्थकृत्= लोहाकर्षादिस्वकार्यकरणशीलः दृश्यते यतः लोके स हि विप्रकृष्ट एव न सन्निकृष्टः, लोहमेव न ताम्रादि, आकर्षत्येव न कर्तयति, तदित्थमस्येवाग्न्यादीनां तथास्वभावकल्पनं केन बाध्यते ? न केनचिदिति भावनीयम् ॥९४॥
॥९६॥
उपसंहरन्नाह
दृष्टान्तमात्रं सर्वत्र यदेवं सुलभं क्षितौ । एतत्प्रधानस्तत्केन स्वनीत्याऽपोद्यते ह्ययम् ॥ ९५ ॥
दृष्टान्तमात्रं = साध्ये वस्तुनि लोकप्रतीतिबाधितं सर्वत्र अविशेषेण, यदेवम्=उक्तनीत्या, सुलभं क्षितौ = पृथिव्याम् । एतत्प्रधानोऽर्थ=कुतर्कः, केनाऽपोद्यते= बाध्यते, न केनचित्स्वनीतिविरोधादित्यर्थः ॥ ९५ ॥ इहैव दृष्टान्तमाह
द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थितः ।
निरालम्बनतां सर्वज्ञानानां साधयन्यथा ॥ ९६ ॥
द्विचन्द्रस्वप्नविज्ञाननिदर्शनबलोत्थित इति निदर्शनमुदाहरणमेतत्सामर्थ्योपजातः । निरालम्बनताम्=आलम्बनशून्यतां, सर्वज्ञानानां मृगतृष्णिकाजलादिगोचराणाम् । अविशेषेण = सामान्येन, साधयन्यथा केनाऽपोद्यते ?
न चैवं तत्त्वसिद्धिरित्याह