________________
योगदृष्टिसमुच्चयः
३३
स्विति = स्थिराद्यासु चतसृषु दृष्टिषु । अस्माद् = वेद्यसंवेदेद्यपदात् पापे= पापकर्मणि हिंसादौ, कर्मागसोऽपि हि कर्मापराधादपि । किमित्याहतप्तलोहपदन्यासतुल्या वृत्तिः संवेगसारा पापे, क्वचिद्यदि भवति, प्रायस्तु न भवत्येवेति ॥७०॥
किमित्येवम्भूतेत्याह
वेद्यसंवेद्यपदतः संवेगातिशयादिति । चरमैव भवत्येषा पुनर्दुर्गत्ययोगतः ॥ ७१ ॥
वेद्यसंवेद्यपदतो=वक्ष्यमाणलक्षणात्, संवेगातिशयादिति=अतिशयसंवेगेन चरमैव भवत्येषा = पापप्रवृत्तिः । कुत इत्याह- पुनर्दुर्गत्ययोगतः श्रेणिकाद्युदाहरणात् ।
(शङ्का)- प्रतिपतितसद्दर्शनानामनन्तसंसारिणामनेकधा दुर्गतियोग इति यत्किञ्चिदेतत् न, अभिप्रायाऽपरिज्ञानात् क्षायिकसम्यग्दृष्टेरेव नैश्चयिकवेद्यसंवेद्यपदभाव इत्यभिप्रायाद्, व्यावहारिकमपि तु एतदेव चारु, सत्येतस्मिन् प्रायो दुर्गतावपि मानसदुःखाऽभावात् वज्रतन्दुलवदस्य भावपाकाऽयोगात् ॥७१॥
अचारु पुनरेकान्तत एव अतोऽन्यदिति यदाह
अवेद्यसंवेद्यपदमपदं परमार्थतः ।
पदं तु वेद्यसंवेद्यपदमेव हि योगिनाम् ॥७२॥
अवेद्यसंवेद्यपदमिति = मिथ्यादृष्ट्याशयस्थानम् । अत एवाह अपदं परमार्थतः यथावस्थितवस्तुतत्त्वाऽनापादनात् । पदं तु = पदं पुनः, वेद्यसंवेद्यपदमेव वक्ष्यमाणलक्षणमन्वर्थयोगादिति ॥७२॥
तथा चाह
३४
योगदृष्टिसंग्रह
वेद्यं संवेद्यते यस्मिन्नपायादिनिबन्धनम् । तथाऽप्रवृत्तिबुद्धयाऽपि स्याद्यागमविशुद्धया ॥ ७३ ॥
वेद्यं=वेदनीयं वस्तुस्थित्या तथाभावयोगिसामान्येनाऽविकल्पकज्ञानग्राह्यमिति योऽर्थः, संवेद्यते = क्षयोपशमानुरूपं निश्चयबुद्ध्यापि ज्ञायते, यस्मिन्= पदे आशयस्थाने । किंविशिष्टमित्याह = अपायादिनिबन्धनं नरकस्वर्गादिकारणम् स्त्र्यादि । तथा तेन प्रकारेण येन सामान्यानुविद्धं, अप्रवृत्तिबुद्धयाऽपि तदुपादानत्यागाऽऽशयात्मिकया संवेद्यते, स्त्र्यादि वेद्यं आगमविशुद्धया= श्रुतापनीतविपर्ययमलया प्रधानमिदमेव बन्धकारणं प्रेक्षावतामपीति स्क्र्यादिग्रहणम् ॥७३॥
तत्पदं साध्ववस्थानाद्भिन्नग्रन्थ्यादिलक्षणम् । अन्वर्थयोगतस्तन्त्रे वेद्यसंवेद्यमुच्यते ॥७४॥
तत्पदमिति, पदनात्पदमाशयस्थानं, साध्वस्थानात् =परिच्छेदात्सम्यगवस्थानेन, भिन्नग्रन्थ्यादिलक्षणं भिन्नग्रन्थिदेशविरतिरूपम् । किमित्याहअन्वर्थयोगतः=अन्वर्थयोगेन, तन्त्रे = सिद्धान्ते, वेद्यसंवेद्यमुच्यते वेद्यं संवेद्यतेऽनेनेति कृत्वा ॥७४॥
तस्मादन्यदाह
अवेद्यसंवेद्यपदं विपरीतमतो मतम् । भवाभिनन्दिविषयं समारोपसमाकुलम् ॥७५॥
अवेद्यसंवेद्यपदं विपरीतमतो= वेद्यसंवेद्यपदात्, मतम् =इष्टम् । तथाहि-अवेद्यम्=अवेदनीयं वस्तुस्थित्या न तथाभावयोगिसामान्येनाऽप्यविकल्पकज्ञानग्राह्यं, तथाविधसमानपरिणामानुपपत्तेः तत्संवेद्यते=अज्ञानावरणक्षयोपशमानुरूपं निश्चयबुद्धयोपप्लवसारया मृगतृष्णोदकवज्ज्ञायते यस्मिन्पदे