________________
योगदृष्टिसमुच्चयः
३१
गुरुभक्तिप्रभावेन=गुरुभक्तिसामर्थ्येन तदुपात्तकर्मविपाकत इत्यर्थः । किमित्याह- तीर्थकृद्दर्शनं मतं = भगवद्दर्शनमिष्टम् । कथमित्याह-समापत्त्यादिभेदेन= समापत्तिर्ध्यानतः स्पर्शना तया, आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः । तदेव विशिष्यते निर्वाणैकनिबन्धनं अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः ॥६४॥
इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाह
सम्यग्धेत्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते ॥ ६५ ॥
सम्यग्=अविपरीतेन विधिना, हेत्वादिभेदेनेति = हेतुस्वरूपफलभेदेन, लोके= विद्वत्समवाये, यस्तत्त्वनिर्णयः = परमार्थपरिच्छेदः । कुत इत्याहवेद्यसंवेद्यपदतः=वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात् । सूक्ष्मबोधः स उच्यते निपुण इत्यर्थः ॥६५॥
इहैव विशेषतः प्रवृत्तिनिमित्तमाह
भवाम्बोधिसमुत्तारात्कर्मवज्रविभेदतः ।
ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ॥ ६६॥
भवाम्भोधिसमुत्तारात्=भवसमुद्रसमुत्तारणाल्लोकोत्तरप्रवृत्तिहेतुतया । तथा कर्मवज्रविभेदतः = कर्मवज्रविभेदेन विभेदतस्त्वपुनर्ग्रहणतः, ज्ञेयव्याप्तेश्च कार्त्स्न्येन=अनन्तधर्मात्मकतत्त्वप्रतिपत्त्या, सूक्ष्मत्वं निपुणत्वं बोधस्य, नायमत्र तु= नायं सूक्ष्मो बोधः अत्र = दीप्रायां दृष्टौ अधस्त्यासु च तत्त्वतो ग्रन्थि - भेदासिद्धेरिति ॥६६॥
अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ॥६७॥
योगदृष्टिसंग्रह
अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्मादासु = मित्राद्यासु चतसृषु दृष्टिषु तथोल्बणं तेन निवृत्त्यादिपदप्रकारेण प्रबलमुद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं= पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम् । अतः परं=वेद्यसंवेद्यपदमासु न तात्त्विकमित्यर्थः ग्रन्थिभेदाऽसिद्धेरित्येतदपि परमासु चरमयथाप्रवृत्तकरणेनैवेत्याचार्याः ॥६७॥
किमेतदेवमित्याह
३२
अपायशक्तिमालिन्यं सूक्ष्मबोधवि (नि) बन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे कदाचिदुपजायते ॥ ६८ ॥
अपायशक्तिमालिन्यं = नरकाद्यपायशक्तिमलिनत्वम् । किमित्याहसूक्ष्मबोधवि (नि) बन्धकृत् अपायहेत्वासेवनक्लिष्टबीजभावेन । नैतद्वतो= अपायशक्तिमालिन्यवतो, अयं = सूक्ष्मो बोधः । तत् = तस्मात् । तत्त्वे इति तत्त्वविषये । कदाचिदुपजायते, अवन्ध्यस्थूरबोधबीजभावादित्यर्थः ॥६८॥ यस्मादेवम्
अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ॥ ६९ ॥
अपायदर्शनं=दोषदर्शनं तस्माच्छुतदीपाद् = आगमात् न तात्त्विकं=न पारमार्थिकमस्येति योगः । तदाभालम्बनं तु परमार्थाभाविषयं पुनर्भवति भ्रान्त्या । कुत इत्याह- तथा पापे प्रवृत्तितः तथा चित्राऽनाभोगप्रकारेण पापे प्रवृत्तेरिति ॥६९॥
अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥७०॥
अतोऽन्यदुत्तरास्विति प्रक्रमादवेद्यपदादन्यद्वेद्यसंवेद्यपदम् । उत्तरा