Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 22
________________ योगदृष्टिसमुच्चयः ३१ गुरुभक्तिप्रभावेन=गुरुभक्तिसामर्थ्येन तदुपात्तकर्मविपाकत इत्यर्थः । किमित्याह- तीर्थकृद्दर्शनं मतं = भगवद्दर्शनमिष्टम् । कथमित्याह-समापत्त्यादिभेदेन= समापत्तिर्ध्यानतः स्पर्शना तया, आदिशब्दात्तन्नामकर्मबन्धविपाकतद्भावापत्त्युपपत्तिपरिग्रहः । तदेव विशिष्यते निर्वाणैकनिबन्धनं अवन्ध्यमोक्षकारणमसाधारणमित्यर्थः ॥६४॥ इह प्रतिषिद्धसूक्ष्मबोधलक्षणाभिधित्सयाह सम्यग्धेत्वादिभेदेन लोके यस्तत्त्वनिर्णयः । वेद्यसंवेद्यपदतः सूक्ष्मबोधः स उच्यते ॥ ६५ ॥ सम्यग्=अविपरीतेन विधिना, हेत्वादिभेदेनेति = हेतुस्वरूपफलभेदेन, लोके= विद्वत्समवाये, यस्तत्त्वनिर्णयः = परमार्थपरिच्छेदः । कुत इत्याहवेद्यसंवेद्यपदतः=वक्ष्यमाणलक्षणाद्वेद्यसंवेद्यपदात् । सूक्ष्मबोधः स उच्यते निपुण इत्यर्थः ॥६५॥ इहैव विशेषतः प्रवृत्तिनिमित्तमाह भवाम्बोधिसमुत्तारात्कर्मवज्रविभेदतः । ज्ञेयव्याप्तेश्च कार्त्स्न्येन सूक्ष्मत्वं नायमत्र तु ॥ ६६॥ भवाम्भोधिसमुत्तारात्=भवसमुद्रसमुत्तारणाल्लोकोत्तरप्रवृत्तिहेतुतया । तथा कर्मवज्रविभेदतः = कर्मवज्रविभेदेन विभेदतस्त्वपुनर्ग्रहणतः, ज्ञेयव्याप्तेश्च कार्त्स्न्येन=अनन्तधर्मात्मकतत्त्वप्रतिपत्त्या, सूक्ष्मत्वं निपुणत्वं बोधस्य, नायमत्र तु= नायं सूक्ष्मो बोधः अत्र = दीप्रायां दृष्टौ अधस्त्यासु च तत्त्वतो ग्रन्थि - भेदासिद्धेरिति ॥६६॥ अवेद्यसंवेद्यपदं यस्मादासु तथोल्बणम् । पक्षिच्छायाजलचरप्रवृत्त्याभमतः परम् ॥६७॥ योगदृष्टिसंग्रह अवेद्यसंवेद्यपदं वक्ष्यमाणलक्षणं यस्मादासु = मित्राद्यासु चतसृषु दृष्टिषु तथोल्बणं तेन निवृत्त्यादिपदप्रकारेण प्रबलमुद्धतमित्यर्थः । पक्षिच्छायाजलचरप्रवृत्त्याभं= पक्षिच्छायायां तद्धिया जलचरप्रवृत्त्याकारम् । अतः परं=वेद्यसंवेद्यपदमासु न तात्त्विकमित्यर्थः ग्रन्थिभेदाऽसिद्धेरित्येतदपि परमासु चरमयथाप्रवृत्तकरणेनैवेत्याचार्याः ॥६७॥ किमेतदेवमित्याह ३२ अपायशक्तिमालिन्यं सूक्ष्मबोधवि (नि) बन्धकृत् । नैतद्वतोऽयं तत्तत्त्वे कदाचिदुपजायते ॥ ६८ ॥ अपायशक्तिमालिन्यं = नरकाद्यपायशक्तिमलिनत्वम् । किमित्याहसूक्ष्मबोधवि (नि) बन्धकृत् अपायहेत्वासेवनक्लिष्टबीजभावेन । नैतद्वतो= अपायशक्तिमालिन्यवतो, अयं = सूक्ष्मो बोधः । तत् = तस्मात् । तत्त्वे इति तत्त्वविषये । कदाचिदुपजायते, अवन्ध्यस्थूरबोधबीजभावादित्यर्थः ॥६८॥ यस्मादेवम् अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् । तदाभालम्बनं त्वस्य तथा पापे प्रवृत्तितः ॥ ६९ ॥ अपायदर्शनं=दोषदर्शनं तस्माच्छुतदीपाद् = आगमात् न तात्त्विकं=न पारमार्थिकमस्येति योगः । तदाभालम्बनं तु परमार्थाभाविषयं पुनर्भवति भ्रान्त्या । कुत इत्याह- तथा पापे प्रवृत्तितः तथा चित्राऽनाभोगप्रकारेण पापे प्रवृत्तेरिति ॥६९॥ अतोऽन्यदुत्तरास्वस्मात्पापे कर्मागसोऽपि हि । तप्तलोहपदन्यासतुल्या वृत्तिः क्वचिद्यदि ॥७०॥ अतोऽन्यदुत्तरास्विति प्रक्रमादवेद्यपदादन्यद्वेद्यसंवेद्यपदम् । उत्तरा

Loading...

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131