Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः
अत एव शैलेश्यवस्यां योगसंन्यासात्कारणात् । अयोगो =योगाऽभावः । योगानां मित्रादीनाम् । मध्य इति गम्यते । किमित्याह-योगः पर:=प्रधानः उदाहृतः इति । कथमित्याह मोक्षयोजनभावेन हेतुना, योजनाद्योग इति कृत्वा । स्वरूपमस्याह-सर्वसंन्यासलक्षण: अधर्मधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति ॥११॥
एवमेतत्स्वरूपमभिधाय प्रकृतोपयोगमाह
एतत्त्रयमनाश्रित्य विशेषेणैतदुद्भवाः । योगदृष्टय उच्यन्त अष्टौ सामान्यतस्तु ताः ॥१२॥
योगदृष्टिसंग्रह तद्रात्र्यादि च, आदिशब्दाद् दिवसपरिग्रहः, तस्मिन् । सग्रहादिश्चासौ अर्भकादिश्चेति विग्रहः । प्रथमादिशब्दादग्रहपरिग्रहः, द्वितीयादिशब्दादनर्भकपरिग्रहः । ओघदृष्टिः सामान्यदर्शनं भवाभिनन्दिसत्त्वविषया । मिथ्यादृष्टिश्चेतरश्च मिथ्यादृष्टीतरौ, तदाश्रया । काचाद्युपहतो मिथ्यादृष्टिः, तदनुपहतस्त्वितर इत्यक्षरगमनिका ।
भावार्थस्तु । एका समेघायां रात्रौ दृष्टिः किञ्चिन्मात्रग्राहिणी, अपरा त्वमेघायां मनागधिकतरग्राहिणीति, आदिशब्दाद्दिवसग्रह इति । तदेका समेघे दिवसे तथाऽपराऽमेघ इति, अस्ति चानयोविशेषः । इयमपि सग्रहस्य द्रष्टुः, आदिशब्दादग्रहस्य च, भवत्यनयोरपि विशेषः, चित्रविभ्रमादिभेदात् । इयमप्यर्भकस्य द्रष्टुः, आदिशब्दादनर्भकस्य च, अस्त्यनयोरपि भेदो विवेकवैकल्यादिभेदात् । इयमपि मिथ्यादृष्टेः काचाद्युपहतलोचनस्य, इतरस्य तदनुपहतलोचनस्येति । यथैष दृष्टिभेद एकस्मिन्नपि दृश्ये चित्रोपाधिभेदात्, तथा पारलौकिकेऽपि प्रमेये क्षयोपशमवैचित्र्यतश्चित्रः प्रतिपत्तिभेद इति । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदावबोधभावादिति । प्रवृत्तिरप्यमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वात् चारिचरिकसंजीवन्यचरकचारणनीत्येत्यलं प्रसङ्गेन ॥१४॥
- प्रकृतं प्रस्तुमः । प्रकृता च मित्रादिभेदभिन्ना योगदृष्टिः, इयं चेत्थमष्टधेति निदर्शनमात्रमधिकृत्याह
एतत्त्रयम् इच्छायोगादिलक्षणं, अनाश्रित्य अनङ्गीकृत्य, विशेषेण= अस्मादियमित्येवंलक्षणेन । किमित्याह-एतदुद्भवाः योगदृष्टय उच्यन्ते मित्राद्याः, अष्टौ सामान्यतस्तु ता: दृष्टय इति ॥१२॥
ताश्चैता:
मित्रा तारा बला दीप्रा स्थिरा कान्ता प्रभा परा । नामानि योगदृष्टीनां लक्षणं च निबोधत ॥१३॥
तत्र मित्रेव मित्रा, तारेव तारा इत्यादि । यथार्थान्येव नामानि योगदृष्टीनाम । लक्षणं च आसां वक्ष्यमाणलक्षणं, निबोधत शृणुतेत्यर्थः । इहौघदृष्टिव्यवच्छेदार्थं योगदृष्टिग्रहणमिति ॥१३॥
तामभिधातुमाह
तृणगोमयकाष्ठाग्निकणदीपप्रभोपमा । रत्नतारार्कचन्द्राभा सदृष्टेदृष्टिरष्टधा ॥१५॥
समेघाऽमेघरात्र्यादौ सग्रहाद्यर्भकादिवत् ।
ओघदृष्टिरिह ज्ञेया मिथ्यादृष्टीतराश्रया ॥१४॥ इहौघदृष्टिानावरणीयादिकर्मक्षयोपशमवैचित्र्याच्चित्रा समेघामेघं च
इहाधिकृतदृष्टिबोधः खल्वर्थोक्त एव तृणाग्निकणाद्युदाहरणसाधर्म्यतो निरूप्यते । सामान्येन सदृष्टेः योगिनो दृष्टिः बोधलक्षणा अष्टधा भवति । तणाग्निकणोपमा मित्रायां, गोमयाग्निकणोपमा तारायां. काष्ठाग्निकणोपमा

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 131