Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः एवं योगसंन्याससञ्ज्ञा सञ्ज्ञाऽस्येति योगसंन्याससञ्जितः । सञ्ज्ञाा चेह तया सज्ञायत इति कृत्वा, सा तत्स्वरूपमेव गृह्यते । क एते धर्माः के वा योगा इत्याह-क्षायोपशमिका धर्मा:-क्षयोपशमनिवृत्ताः क्षान्त्यादयः, योगाः कायादिकर्म तु योगाः पुनः कायादिव्यापाराः कायोत्सर्गकरणादयः ॥९॥
एवमेष द्विधा सामर्थ्ययोग इति यो यदा भवति तं तदाऽभिधातुमाहद्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् । आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः ॥१०॥
द्वितीयाऽपूर्वकरण इति । ग्रन्थिभेदनिबन्धनप्रथमापूर्वकरणव्यवच्छेदार्थ द्वितीयग्रहणं, प्रथमेऽधिकृतसामर्थ्ययोगाऽसिद्धेः । अपूर्वकरणं त्वपूर्वपरिणाम: शुभोऽनादावपि भवे तेषु धर्मस्थानेषु वर्तमानस्य तथाऽसञ्जातपूर्वो ग्रन्थिभेदादिफल उच्यते । तत्र प्रथमेऽस्मिन् ग्रन्थिभेदः फलं, अयं च सम्यग्दर्शनफलः, सम्यग्दर्शनं च प्रशमादिलिङ्ग आत्मपरिणामः । यथोक्तं "प्रशमसंवेगनिर्वेदानकम्पास्तिक्याभिव्यक्तिलक्षणं तत्त्वार्थश्रद्धानं सम्यग्दर्शनम्" इति । यथाप्राधान्यमयमुपन्यासो चारुश्च पश्चानुपूर्वृति समयविदः । द्वितीये त्वस्मिस्तथाविधकर्मस्थितेस्तथाविधसङ्ख्ये यसागरोपमातिकमभाविनि । किमित्याह-प्रथमस्तात्त्विको भवेत् इति । प्रथमोधर्मसन्याससज्ञितः सामर्थ्ययोगः तात्त्विक: पारमार्थिको भवेत्, क्षपकश्रेणियोगिनः क्षायोपशमिकक्षान्त्यादिधर्मनिवृत्तेः । अतोऽयमित्थम्पन्यास इति । अतात्त्विकस्तु प्रव्रज्याकालेऽपि भवति, प्रवृत्तिलक्षणधर्मसंन्यासायाः प्रव्रज्यायाः ज्ञानयोगप्रतिपत्तिरूपत्वात् । अत एवास्य भवविरक्त एवाधिकार्युक्तः, यथोक्तं
"अथ प्रव्रज्याहः १-आर्यदेशोत्पन्नः, २-विशिष्टजातिकुलान्वितः, ३-क्षीणप्रायकर्ममलः, ४-तत एव विमलबुद्धिः, ५-'दुर्लभंमानुष्यं जन्ममरणनिमित्तं, सम्पदश्चपलाः, विषया दुःखहेतवः, संयोगे वियोगः, प्रतिक्षणं मरणं, दारुणो विपाकः' इत्यवगतसंसारनैर्गुण्यः, ६
योगदृष्टिसंग्रह तत एव तद्विरक्तः, ७-प्रतनुकषायः, ८-अल्पहास्यादिः, ९-कृतज्ञः, १०विनीतः, ११-प्रागपि राजामात्यपौरजनबहुमतः, १२-अद्रोहकारी, १३कल्याणाङ्गः, १४-श्राद्धः, १५-स्थिरः, १६-समुपसम्पन्नश्च इति" ।
न ह्यनीदृशो ज्ञानयोगमाराधयति न चेदृशो नाराधयतीति भावनीयम् । सर्वज्ञवचनमागमः, तत्रायं नानिरूपितार्थ इति । आयोज्यकरणादूर्ध्वम् इति आ केवलाभोगेनाचिन्त्यवीर्यतया, योज्य तथा तत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे करणं कृतिरायोज्यकरणं शैलेश्यवस्थाफलमेतत् । अत एवाह द्वितीय इति तद्विदः योगसंन्याससज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् । सर्वमिदमागमिकं वस्तु, तथा चैतत्संवाद्यार्षम्
करणं अहापवत्तं, अपुव्वमणियट्टिमेव भव्वाणं । इयरेसिं पढम चिय, भण्णइ करणं ति परिणामो ॥ जा गण्ठी ता पढम, गण्ठि समइच्छओ भवे बीयं । अणियट्टीकरणं पुण, संमत्तपुरक्खडे जीवे ॥ गण्ठि त्ति सुदुब्भेओ, कक्खडघणरूढगूढगण्ठि व्व । जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो ॥ एत्तो विवज्जओ खलु, भिन्ने एयम्मि संमणाणं तु । थोवं पि सुपरिसुद्धं, सच्चासंमोहहेउ त्ति ॥ संमत्तंमि उ लद्धे, पलियपुहत्तेण सावओ होइ ।
चरमोवसमखयाणं, सागरसंखंतरा होति ॥ इत्यादि । लेशतः परिभावितार्थमेतत् ॥१०॥ यत आयोज्यकरणादूर्ध्वं द्वितीयः,
अतस्त्वयोगो योगानां योगः पर उदाहृतः । मोक्षयोजनभावेन सर्वसंन्यासलक्षणः ॥११॥

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 131