Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna
View full book text
________________
योगदृष्टिसमुच्चयः सिद्धान्तमाश्रित्य आर्षं न तु कामादिशास्त्राणि । किमित्याह-विधिना= न्यायात्तधनसत्प्रयोगादिलक्षणेन । किमित्याह-लेखनाऽऽदि च योगबीजमनुत्तममिति ॥२७॥
आदिशब्दार्थमाहलेखना पूजना दानं श्रवणं वाचनोद्ग्रहः । प्रकाशनाऽथ स्वाध्यायश्चिन्तना भावनेति च ॥२८॥
योगदृष्टिसंग्रह सम्बन्धयोग्यतालक्षणे, क्षीणे सति न स्तोके किन्तु प्रभूते पुद्गलपराऽऽवर्ताक्षेपके, जायते प्रादुर्भवति, नृणां पुंसाम् । प्राय एतेऽधिकारिण इति नृग्रहणं, अन्यथा चातुर्गतिकमेतत् । प्रभूत एव क्षीणे नाल्प इत्याह करोत्यव्यक्तचैतन्यः हिताऽहितविवेकशून्यो बालः, न महत्कार्यं अर्थानुष्ठानादि, यत्क्वचित्, किं तु व्यक्तचैतन्य एव करोति ॥३०॥
यदाऽस्य क्षयोऽभिमतः तदोपदर्शयन्नाह
चरमे पुद्गलावर्ते क्षयश्चास्योपपद्यते । जीवानां लक्षणं तत्र यत एतदुदाहृतम् ॥३१॥
चरमे पुद्गलावर्ते यथोदितलक्षणे क्षयश्चास्योपपद्यते भावमलस्य, जीवानां लक्षणं तत्र चरमे पुद्गलावर्ते, यत एतदुदाहृतं वक्ष्यमाणमिति ॥३१॥
यदुदाहृतं तदभिधातुमाह
लेखना सत्पुस्तकेषु, पूजना पुष्पवस्त्रादिभिः दानं पुस्तकादेः, श्रवणं व्याख्यानस्य, वाचना स्वयमेवास्य, उद्ग्रहः विधिग्रहणमस्यैव, प्रकाशना गृहीतस्य भव्येषु, अथ स्वाध्यायो वाचनादिः अस्यैव, चिन्तना ग्रन्थार्थतः अस्यैव, भावनेति च एतद्गोचरैव योगबीजमिति योगः ॥२८॥
तथा
बीजश्रुतौ च संवेगात्प्रतिपत्तिः स्थिराशया । तदुपादेयभावश्च परिशुद्धो महोदयः ॥२९॥
दुःखितेषु दयाऽत्यन्तमद्वेषो गुणवत्सु च । औचित्यात्सेवनं चैव सर्वत्रैवाऽविशेषतः ॥३२॥
बीजश्रुतौ च यथोक्तगोचरायाम्, संवेगात् श्रद्धाविशेषात् प्रतिपत्तिः एवमेतत् इत्येवंरूपा, स्थिराशया तथाविधचित्तप्रबन्धविस्रोतसिकाभावेन । तदुपादेयभावश्च-बीजश्रुत्युपादेयभावश्च, परिशुद्धः फलोत्सुक्याभावेन, महोदयः अत एवाऽनुषङ्गिकाऽभ्युदयतो निःश्रेयससाधनादिति ॥२९॥
एवमेतद्योगबीजोपादानं यथा जायते तथाऽभिधातुमाह
दुःखितेषु शरीरादिना दुःखेन दयाऽत्यन्तं सानुशयत्वमित्यर्थः । औचित्यात्सेवनं चैव शास्त्रानुसारेण, सर्वत्रैव दीनादौ, अविशेषतः सामान्येन ॥३२॥
यतश्चैवमतः
एतद्भावमले क्षीणे प्रभूते जायते नृणाम् । करोत्यव्यक्तचैतन्यो महत् कार्यं न यत्क्वचित् ॥३०॥ एतद्=अन्तरोदितं योगबीजोपादानं, भावमले=तत्तत्पुद्गलाऽऽदि
एवंविधस्य जीवस्य भद्रमूर्तेर्महात्मनः । शुभो निमित्तसंयोगो जायतेऽवञ्चकोदयात् ॥३३॥ एवंविधस्य जीवस्य अनन्तरोदितलक्षणयोगिनो, भद्रमूर्तेः प्रिय

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131