Book Title: Yogadrushti Sangraha
Author(s): Prashamrativijay
Publisher: Pravachan Prakashan Puna

View full book text
Previous | Next

Page 14
________________ योगदृष्टिसमुच्चयः इदानीं प्रतिदृष्टि साकल्येनाङ्गयोजनामुपदर्शयन्नाह मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चाऽपरत्र तु ॥ २१ ॥ १५ मित्रायां दृष्टौ । दर्शनं मन्दं = स्वल्पो बोधः, तृणाग्निकणोद्द्योतेन सदृशः । यम=अहिंसादिलक्षणः, इच्छादिकस्तथा, यथोक्तम् "अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहा यमाः " । एते च इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा इति वक्ष्यति । अखेदो देवकार्यादौ, आदिशब्दाद् गुरुकार्यादिपरिग्रहः । तथातथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्र, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्च = अमत्सरश्च । अपरत्र तु= कार्यादौ तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावेऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्यस्याशयः । अतोऽस्यापरत्र न चिन्ता तद्भावेऽपि करुणां बीजस्यैवेषत्स्फुरणमिति ॥ २१ ॥ अस्यां दृष्टौ व्यवस्थितो योगी यत्साधयति तदभिधित्सयाह करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्ष हेतूनामिति योगविदो विदुः ॥२२॥ करोति तत्त्वकरणेन । योगबीजानां वक्ष्यमाणलक्षणानाम् । उपादानं= ग्रहणम् । इह स्थितो मित्रायां दृष्टौ मैत्रो योगीत्यर्थः । किंविशिष्टानां योगबीजानामित्याह-अवन्ध्यमोक्षहेतूनाम् इति, न हि योगबीजं न योगफलं नाम, योगश्च मोक्षफल इति । इति योगविदो विशिष्टा एव योगाचार्याः, विदुरिति जानते ॥२२॥ साम्प्रतं योगबीजान्युपन्यस्यन्नाह १६ योगदृष्टिसंग्रह जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥२३॥ जिनेषु =भगवदर्हत्सु । कुशलं चित्तं = द्वेषाद्यभावेन प्रीत्यादिमत्, अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव च = जिननमस्कार एव च तथामनोयोगप्रेरित इति, अनेन तु वाग्योगवृत्तिम् । प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः, संशुद्धम् इत्यसंशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वानुपपत्तेः । एतत्सर्वमेव सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजकाऽनुष्ठानकारणम् । अनुत्तमम् इति सर्वप्रधानं विषयप्राधान्यादिति ॥ २३ ॥ यदैतद्भवति तत्समयमभिधातुमाह चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमादन्यदाऽपीति तद्विदः ॥२४॥ चरमे पुद्गलावर्ते इति । पुद्गलानामावर्तास्तथातथा तत्तद्ग्रहणसन्त्यागाभ्यामिति पुद्गलावर्ता: "एते ह्यनादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित्कियन्तोऽपि " इति वचनप्रामाण्याच्चरमपदे चरमावर्ताभिधानात् । अत्रापि कारणमाह तथा भव्यत्वपाकतः इति तथाभव्यत्वपाकेन ततस्तस्मान्मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुर्यसिद्धेः संशुद्धमेतत्=जिनेषु कुशलादिचित्तम् । नियमात् = नियमेन तथाभव्यत्वपाकभावेन कर्मणां तथा, अन्यदा संशुद्धवदसंशुद्धाऽनुपपत्तेः । अत एवाह - नान्यदापि नान्यस्मिन्नपि काले प्राक् पश्चाच्च क्लिष्टाशयविशुद्धतराशययोगात् । इति तद्विदः=इत्येवं योगविदोऽभिदधति ॥२४॥ एवमस्य समयमभिधायैतदभिधित्सया त्वाह

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131