________________
योगदृष्टिसमुच्चयः
इदानीं प्रतिदृष्टि साकल्येनाङ्गयोजनामुपदर्शयन्नाह
मित्रायां दर्शनं मन्दं यम इच्छादिकस्तथा । अखेदो देवकार्यादावद्वेषश्चाऽपरत्र तु ॥ २१ ॥
१५
मित्रायां दृष्टौ । दर्शनं मन्दं = स्वल्पो बोधः, तृणाग्निकणोद्द्योतेन सदृशः । यम=अहिंसादिलक्षणः, इच्छादिकस्तथा, यथोक्तम् "अहिंसासत्यास्तेयब्रह्मचर्यपरिग्रहा यमाः " । एते च इच्छाप्रवृत्तिस्थैर्यसिद्धिभेदा इति वक्ष्यति । अखेदो देवकार्यादौ, आदिशब्दाद् गुरुकार्यादिपरिग्रहः । तथातथोपनत एतस्मिंस्तथापरितोषान्न खेदोऽत्र, अपि तु प्रवृत्तिरेव, शिरोगुरुत्वादिदोषभावेऽपि भवाभिनन्दिनो भोगकार्यवत् । अद्वेषश्च = अमत्सरश्च । अपरत्र तु= कार्यादौ तथा तत्त्ववेदितया मात्सर्यवीर्यबीजभावेऽपि तद्भावाङ्कुरानुदयात्तत्त्वानुष्ठानमधिकृत्य कर्मण्यस्याशयः । अतोऽस्यापरत्र न चिन्ता तद्भावेऽपि करुणां बीजस्यैवेषत्स्फुरणमिति ॥ २१ ॥
अस्यां दृष्टौ व्यवस्थितो योगी यत्साधयति तदभिधित्सयाह
करोति योगबीजानामुपादानमिह स्थितः । अवन्ध्यमोक्ष हेतूनामिति योगविदो विदुः ॥२२॥
करोति तत्त्वकरणेन । योगबीजानां वक्ष्यमाणलक्षणानाम् । उपादानं= ग्रहणम् । इह स्थितो मित्रायां दृष्टौ मैत्रो योगीत्यर्थः । किंविशिष्टानां योगबीजानामित्याह-अवन्ध्यमोक्षहेतूनाम् इति, न हि योगबीजं न योगफलं नाम, योगश्च मोक्षफल इति । इति योगविदो विशिष्टा एव योगाचार्याः, विदुरिति जानते ॥२२॥
साम्प्रतं योगबीजान्युपन्यस्यन्नाह
१६
योगदृष्टिसंग्रह
जिनेषु कुशलं चित्तं तन्नमस्कार एव च । प्रणामादि च संशुद्धं योगबीजमनुत्तमम् ॥२३॥
जिनेषु =भगवदर्हत्सु । कुशलं चित्तं = द्वेषाद्यभावेन प्रीत्यादिमत्, अनेन मनोयोगवृत्तिमाह । तन्नमस्कार एव च = जिननमस्कार एव च तथामनोयोगप्रेरित इति, अनेन तु वाग्योगवृत्तिम् । प्रणामादि च पञ्चाङ्गादिलक्षणम्, आदिशब्दान्मण्डलादिग्रहः, संशुद्धम् इत्यसंशुद्धव्यवच्छेदार्थमेतत्, तस्य सामान्येन यथाप्रवृत्तिकरणभेदत्वात्तस्य च योगबीजत्वानुपपत्तेः । एतत्सर्वमेव सामस्त्यप्रत्येकभावाभ्यां योगबीजं मोक्षयोजकाऽनुष्ठानकारणम् । अनुत्तमम् इति सर्वप्रधानं विषयप्राधान्यादिति ॥ २३ ॥
यदैतद्भवति तत्समयमभिधातुमाह
चरमे पुद्गलावर्ते तथाभव्यत्वपाकतः । संशुद्धमेतन्नियमादन्यदाऽपीति तद्विदः ॥२४॥
चरमे पुद्गलावर्ते इति । पुद्गलानामावर्तास्तथातथा तत्तद्ग्रहणसन्त्यागाभ्यामिति पुद्गलावर्ता: "एते ह्यनादौ संसारे तथाभव्यत्वाक्षिप्ताः कस्यचित्कियन्तोऽपि " इति वचनप्रामाण्याच्चरमपदे चरमावर्ताभिधानात् । अत्रापि कारणमाह तथा भव्यत्वपाकतः इति तथाभव्यत्वपाकेन ततस्तस्मान्मिथ्यात्वकटुकत्वनिवृत्त्या मनाक् माधुर्यसिद्धेः संशुद्धमेतत्=जिनेषु कुशलादिचित्तम् । नियमात् = नियमेन तथाभव्यत्वपाकभावेन कर्मणां तथा, अन्यदा संशुद्धवदसंशुद्धाऽनुपपत्तेः । अत एवाह - नान्यदापि नान्यस्मिन्नपि काले प्राक् पश्चाच्च क्लिष्टाशयविशुद्धतराशययोगात् । इति तद्विदः=इत्येवं योगविदोऽभिदधति ॥२४॥
एवमस्य समयमभिधायैतदभिधित्सया त्वाह